________________
सामग्री वै कार्यजनिका। भेदाननुविधाने हेतुकताप्रसङ्गात् । तथा च वक्ष्यति - ' अपरापरप्रत्यययोगेन प्रतिक्षणं भिन्नशक्तयः सन्तन्वन्तः संस्कारा यद्यपि कुतश्चित् साम्यात् समानरूपाः प्रतीयन्ते तथापि भिन्न एव एषां स्वभावः, तेन किश्चिदेव कस्यचित् कारणम् ' इति ।
यदुक्तं 'तत्स्वभावस्य जननात्' इत्यस्यानेकान्तमुद्भावय- 5 नाह परः - " ते " बीजक्षित्यादयः " अन्त्याः ” अन्ते भवाः प्रत्येकमङ्कुरजनने 'समर्थाः ' खण्डशः कारणेभ्यः कार्योत्पादाभावाद् भवद्भिरिष्यन्त इति “किन्न जनयन्ति प्रत्येकम् ” ? । ततश्चैषामेक एव कश्चिदडुरं जनयति , तदन्ये तु तत्स्वभावा अपि न जनयन्तीति 'तत्स्वभावस्य जननात् ' इत्यनेकान्तः । तद्वत् कुशूलाद्य- 10 वस्था अपि बीजादयोऽङ्कुरादिजननस्वभावा अपि न जनयिष्यन्तीति तैरनेकान्तः [S. 92b.] तदवस्थ एवेति मन्यते परः।
अत्राह - “ इति " यदेवं त्वं मन्यसे । परेण सामान्येनाभिधानात् सामान्येनैवोत्तरमाह - “जनयन्त्येव ” [T. 268a.] " नात्र " स्वकार्यजनने “अन्यथाभावः” अजनकत्वमाशङ्कनीयम् । कुतः ? "स्वभा-15 वस्यावैपरीत्यात्।। यदि हि न जनयेयुर्जननस्वभावा एव न स्युः। तत्स्वभावाश्चेष्यन्त इत्यवश्यं जनयन्ति , तथा च कुतोऽनैकान्तः ? इति भावः। [$ २०. एकेनैव समर्थन कार्यजनने परेषामनुपयोगमाशङ्कय तदुद्धारः।]
प्रत्येकमन्त्यानां जनकत्वे कार्यस्यैकेन जननादपरेषामुपयो- 20 गस्य निविषयत्वादजननमेवेति मन्यमान आह परः - " तेषु " अन्त्येषु " सहकारिषु " सह - युगपत् करणशीलेषु “ समर्थखभावेषु " तत्कार्यक्रियायोग्येषु अभ्युपगम्यमानेषु सत्सु " कार्यस्यैकेनैव जनितत्वात् कोऽपरस्योपयोगः ? ” नैव कश्चित् । तत् किमुच्यते 'जनयन्त्येव' इति ? । एतत् परिहरति - 'न वै' नैव " भावानां " बीजादीनां का- 25 चित् " प्रेक्षापूर्वकारिता " बुद्धिपूर्वकारिता , “ यतः " प्रेक्षापूर्वकारित्वात् 'अयमस्मास्वन्यतम एकोऽपि समर्थः कार्यजनने, किमत्रास्माभिः कर्त्तव्यम् ?' इत्यालोच्य " अपरे निवर्तेरन्” [S. 93a.] औदा
१. निवर्तेरन् ' इत्येतद् व्याख्याति । १२ हे,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org