________________
हेतुबिन्दुटीका । प्रसवः " स एवाकुरजननस्वभावः ", [T. 267a.] कार्यदर्शनोनीयमानरूपत्वात् तज्जननस्वभावतायाः। ___ यदि तर्हि स एवाङ्कुरजननस्वभावः, पूर्वभाविनामवस्था
भेदानामतज्जननस्वभावत्वात् कथं तेषु तत्कारणव्यपदेशः ? अ5 कुरार्थिभिर्वा तदुपादानम् ? इत्यत आह - 'पूर्वभाविनस्तु । कुशूलाद्यवस्थितिकालभाविनस्तु "अवस्थाविशेषा अङ्कुरकारणस्यान्त्यस्यावस्थाविशेषस्य " कारणानि” प्रत्ययान्तरोपधीयमानविशेषेभ्यः परम्परया " तेभ्यस्तदुत्पत्तेः " । अतस्तेषूपचारतः कारणव्यपदेशोऽकुरार्थिभिश्चोपादानम् । यतस्तत्स्वभावस्य बीजादेर्जननं न हेत्व10 न्तरापेक्षम् , यच्चाजनकमपेक्षते न तस्य [S. 91b] तज्जननखभावत्वम् इति । " तस्मान्नानेकान्तो ” बीजादिवत् 'तत्वभावत्वात्' इत्यस्य हेतोः इत्युपसंहारः।
तदेवं यदा तावत् प्रत्यभिज्ञानं प्रत्यक्षप्रमाणतया स्थैर्यसिद्धये परैरुच्यते बीजादिवदनेकान्तं प्रतिपादयितुम् , तदा तस्यो15 क्तेन प्रकारेण प्रत्यक्षानुमानाभ्यां वाध्यमानत्वात् तदात्मता नास्तीति कुतस्तत एकना भावानाम् ?, यतोऽनेकान्तः स्यादिति प्रतिपादितम् । यदा तु प्रत्यभिज्ञायमानत्वात् पूर्वापरकालयोरेकस्वभावा बीजादय इति हेतुतयोच्यते परैः, तदाऽयमसिद्धो हेतुः । न च स पक्षे कचिद् वर्तत इत्याह – “ क्षणिकेषु भावेषु " 20 अस्माभिरिष्यमाणेषु "ऐक्याभावादिति सम्बन्धः ।
[$ १९. तत्स्वभावत्वात् इत्यत्र पुनरपि अनेकान्तदोषोद्धारः।] अथ यस्यापि क्षणिका भावास्तस्यापि बीजादीनां [T. 267b.] प्रतिक्षणमैक्याभावेऽपि विशेषानुपलक्षणादन्त्यक्षणवत् सर्वेषां
जनकखभावानामपि तद्भावं प्रति सलिलाद्यपेक्षत्वात् तदवस्थ25 मनैकान्तिकत्वम् इत्याशङ्कयाह – “ अपरापरोत्पत्तेः ” क्षणिकैरपि [S. 92a.] नानेकान्तः, अपरेभ्योऽपरेभ्यश्च प्रत्ययेभ्यः प्रतिक्षणमुत्पत्तेः क्षणिकानां भिन्नशक्तित्वादन्त्यक्षणवज्जनकस्वभावताविरहात् कुतस्तैरप्यनेकान्तः स्यात् । न हि कारणभेदोपधीयमानजन्मनां विशेषानुपलक्षणेऽप्यभिन्नस्वभावता युक्ता, हेतु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org