________________
प्रत्यक्षस्थानुमानाद्रीयस्त्वनिरालः। भावमेव प्रत्यभिज्ञया व्यवस्थाप्यत इति स्वभावहेतुप्रसङ्गः । न च जनयति । तस्मान्न तज्जननस्वभावमिति । विपर्ययप्रयोगःयद् यदा यज्जननस्वभावं निर्वयं कार्य न जनयति न तत् तदा तज्जननस्वभावम् , तद्यथा - शाल्यकुरजननस्वभावनिर्वयं कार्यमजनयत् कोद्रवबीजम् । न जनयति चं सलिलादिकारणस- 5 निधेः प्राक् तत्कार्यजननस्वभावनिर्वत्यै [S. 90b.] स्वकार्य बीजादिकमिति [T. 266b.] व्यापकानुपलब्धिः। ततोऽनुमानतोऽपि बाधामनुभवत् प्रत्यभिज्ञानं कथं प्रमाणं स्यात् ।
ननु चानेन बाध्यमानस्यानुमानस्याप्रामाण्यात् कथं बाधकत्वम् ? । अनिश्चितप्रमाणभावेन कुतो बाधा ?। नापि इतरेतरा-10 श्रयत्वम् । नहि प्रत्यभिज्ञानस्याप्रामाण्यादेतदनुमानं प्रमाणम्, किन्तु स्वसाध्यप्रतिबन्धात् । स च विपर्यये बाधकप्रमाणबलानिश्चित इति।
[$ १८. प्रत्यक्षस्यानुमानात् गरीयस्त्वनिरासः।] न प्रत्यक्षादन्यद् गरिष्ठं प्रमाणमिति चेत् । न । प्रत्यभि-15 ज्ञायाः प्रत्यक्षत्वासिद्धेः । न हीयमनुमानेन प्रत्यक्षात्मिका सती बाध्यत इति ब्रूमहे । किं कृतं च प्रत्यक्षस्य गरीयस्त्वम् ? । तद्धयर्थस्थासम्भवेऽभावात् प्रमाणमुच्यते तच्चानुमानस्याप्यर्थप्रतिबद्धलिङ्गजन्यतया समानमिति नास्य कश्चिविशेषः। यदि चानुमानविरोधमनुवानापि प्रत्यभिज्ञा प्रमाणं तदाऽऽकारस्य सा- 20 म्यात् तदेकतां प्रतियती नीलेतरकुसुमादेः [प्रतीतिः] किं न प्रमाणम् ? । नहि कुसुमफलादिकार्यदर्शनोन्नीयमानो भेदः प्रत्यक्षतस्तथाभावमनुभवति। विस्तरतश्च प्रत्यभिज्ञाप्रामाण्यनिरासः [S. 91a.] क्षणभङ्गसिद्धावेव विहित इत्यास्तां तावदिह ।। ____ यतः एवम् ” उक्तेन प्रकारेण जनकाजनकावस्थयोः बीजादे-25 वस्तुभेदः " तस्माद् योऽन्त्योऽवस्थाविशेषो ” यदनन्तरं अङ्कुरादिकार्य१. च शाल्यादिका T. २. प्रत्यभिज्ञानेन । ३. उत्तरम् । ४. गिरिकान्तका (१) *कन्नि ()
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org