________________
हेतु बिन्दुटीका ।
क्रियानिबन्धनं रूपमपास्य बीजादेरपरः परमार्थतः स्वभावोऽस्ति, यस्याधिगमात् प्रत्यभिज्ञानं प्रमाणं भवेत्, अर्थक्रियासामर्थ्यलक्षणत्वात् परमार्थसतः । तस्मात् सदृशापरभावनिबन्धन एवायं केशकदलीस्तम्बादिष्विवाकारसाम्यतामात्रापहृतहृदयानां 5 भ्रान्त [S. 89b.] एव तत्त्वाध्यवसायो मन्तव्यः । ततः सतोऽपि प्रतिक्षणं भेदस्यानुपलक्षणं बालानाम् । यदा तु विधुरप्रत्ययोपनिपातादू विसदृशापरभावप्रसवः तदाऽस्य तत्त्वाध्यवसायी प्रत्यभिज्ञाप्रत्ययो न भूतिमवलम्बते । न च तदेकाकारपरामर्शप्रत्ययजनकत्वादपरं सादृश्यम् । भेदाविशेषेऽपि च स्वहेतुबलायात10 प्रकृतिवशात् केचिदेवैकाकार परामर्शप्रत्ययलक्षणामर्थज्ञानादिलक्षणां वाऽर्थक्रियां कुर्व्वन्ति नापर इति विपश्चितं प्रमाणवार्तिक एव शास्त्रकृतेति नेह प्रपश्यते ।
८६
खभावः "
[8 १७. अनुमानेनापि प्रत्यभिज्ञाया बाधात् न ततः स्थिरभावसिद्धिः । ] अवश्यं च बीजादेर्जनकाजनकावस्थयोर्व्वस्तुभेदो यथोक्तो15 ऽवगन्तव्य इति दर्शयितुमनुमानमभेदस्य [T. 265a. ] बाधकमाह " भावानां ” बीजादीनां स्वकार्यजनको यः “ तस्य तेषु सत्सु " अन्यथात्वाभावात् " कदाचिदजनकत्वासम्भवात् [S. 90a.] “तत्स्वभावस्य” अङ्कुरादिजनकस्वभावस्य " पश्चादिव " सलिलादिकारणसन्निधान इव " प्रागपि " कुशूलाद्यवस्थितिकालेऽपि 20 स्वकार्य“जननप्रसङ्गात्” । तथा हि- सलिलादिसन्निधानेऽपि बीजादिः स्वरूपेणैव कार्य करोति, न पररूपेण । यश्चास्य तदा [T. 266a.] कार्यजनकः स्वभाव:, स चेत् प्रागप्यस्ति स एवायम्' इति प्रत्यभिज्ञायां पुरोऽवस्थायिनो जनकस्वभावस्य प्राच्यरूपाभेदाध्यवसायात्, ततः किमिति प्रागपि तत्कार्य न 25 कुर्यादिति ? | प्रयोगः - यद् यदा यज्जननस्वभावं तत् तदा तज्जनयत्येव । अजनकस्य जनकत्वस्वभावविरोधात् । अन्यस्यापि वा तत्स्वभावतापत्तेः । यथा - तदेव बीजादिकं सलिलादिसन्निघिकाले । कुशूलाद्यवस्थास्वपि चेदं बीजादिकं स्वकार्यजननस्व
6
3
१. रुपालोकादयः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org