________________
प्रत्यभिशया न स्थिरैकभावसिद्धिः। तथा च तस्यापि ताभ्यां कथञ्चिद्भेदः, अन्यथा तदेकखभावादत्यन्तमभेदावस्थातव्रतोः परस्परमत्यन्तं भेदाभेदौ प्रसज्येयाताम् । रूपान्तरस्य कथश्चिद्भेदे [S. 88b.] तन्निबन्धनमपरं रूपम्, तथाऽस्यापि तदन्यद् इत्यपरिमितरूपतैवैकैकस्य वस्तुनः समासज्येत । न चापरिमितरूपप्रतिभासि प्रत्यक्षमनुभवामः । अननु- 5 भवन्तश्च कथं तत्कल्पनयाऽऽत्मनैवात्मानं विप्रलभेमहि ? । तस्मादवस्थारूपविवेकेनोपलब्धिलक्षणप्राप्तस्यानुपलम्भादू अपरिमितरूपताप्रसङ्गाच्च कथञ्चिद्भेदाभेदवतोऽवस्थातुरसत्त्वमेव । ताश्वावस्था जनकाजनकखभावभेदवत्यः [T. 266a.] प्रत्यक्षत एवावगम्यन्त इति तदेकत्वाध्यवसायि प्रत्यभिज्ञानं तंद्वाधामनुभवत् 10 कथं प्रमाणं स्यात् ?, यतो बीजादीनामङ्कुरादिजननस्वभावाना. मपि तदात्मतायां हेत्वन्तरापेक्षणात् प्राक्तनस्य हेतोरनैकान्तिकता भवेत्।
भवतु वाऽवस्थाता कश्चित् , तस्याप्येतदेव भेदं साधयति । तथा हि - "तयोः" [T. 264a.] जनकाजनकावस्थयोरिति सप्तमी-15 द्विवचनमेतत् तदा भवति । तदयमों - जनकावस्थायामजनकावस्थायां च " वस्तुनः " धमिलक्षणस्य “ भेदः " खभावनानात्वम् "अत एव ” जनकाजनकखभावत्वादेव प्रत्यक्षावसितात् " निश्चयः " निश्चयलक्षणस्तत्र व्यवहारः कर्तव्यः, विषयस्य [S. 89a.] विरुद्धधर्माध्यासलक्षणस्य दर्शनादिति। ..... 20
न च शक्यते वक्तुम् - अवस्था एवाङ्गुरादिजननखभावा नावस्थाता इति । तस्य सर्वसामर्थ्यविरहलक्षणस्यासत्त्वप्रसङ्गात् । [T. 264b.] ततो यद् एकरूपतया प्रत्यभिज्ञानं भावेषु तत् पूर्वोतरकालयोर्जनकाजनकखभावभेव्यवस्थापकप्रत्यक्षनिवन्धनामनुभवद्वाधां कथमिव प्रमाणं स्यात् । तत्प्रतिभासिनश्चाभिन्नरूप- 25 स्यालीकत्वेऽक्षसमुद्भवामपि वृत्तिमनुभवतोऽस्य सत्सम्प्रयोगजस्वाभावात् तैमिरिकादिधियामिव कुतः प्रत्यक्षता ? । न चार्थ
१. परम्परयात्यन्तं भेदाभेदौ वस्त्वन्तरे प्रसज्ये T. २. प्रत्यक्ष | ३. “ यो हि यत्स्वभावः " इत्यादिना कथितस्य । ४. प्रत्यक्षम ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org