________________
हेतुबिन्दुटीका। तोऽनेकान्तो [T. 264a.] न स्यात् । न चाप्रमाणं प्रत्यभिज्ञा, " तत्रापूर्वार्थविज्ञानम् ” इत्यादिप्रमाणलक्षणयोगात्, सत्सम्प्रयोगे. णेन्द्रियाणां भावतश्च प्रत्यक्षमेव प्रत्यभिज्ञानम् । न च प्रत्यक्षाद् गरिष्ठं प्रमाणमस्ति , यतस्तद्विषयस्य भेदसिंड्या बाधामनुभव5 प्रमाणमेतत् [S. 87b.] स्यात् इत्याशङ्कयाह – ' अत एव ' जनकत्वाजनकत्वादेव विरुडधर्माध्यासात् ' तयोरवस्थयोः , जनकाजनकावस्थयोः बीजादेः " वस्तुभेदः " स्वभावभेदो " निश्चयः "अध्यवसातव्यः। यथा हि शालिबीजं तदङ्कुरजननस्वभावं. तद्भावे
शाल्यकुरभावदर्शनात् प्रत्यक्षतोऽवगम्यते, यवबीजं चातज्जनन10 स्वभावम् तद्भावे शाल्यकुरानुपलब्ध्या [T. 265a.] तद्विविक्तयव
बीजग्राहिप्रत्यक्षरूपया प्रतीयते तथाऽत्राप्यवस्थादये शालिबीजस्य तदङ्कुरविविक्ताविविक्तावस्थाग्राहिप्रत्यक्षवलादेव स्वाकुरजनकाजनकस्वभावता किन्न निश्चीयते ?। इष्यत एवावस्थयो
आंदोऽवस्थावतस्त्वभेद इति चेत् । न । तस्यावस्थारूपविवेकिना 15 रूपान्तरेण प्रत्यक्ष प्रतिभासनप्रसङ्गात् । न हि यदनात्मरूपविवेकेन स्वज्ञाने न प्रतिभासते तस्य प्रत्यक्षता युक्ता । अवस्था तम्तोः स्वभावभेदाभावात् [S. 88a.] कथं रूपान्तरेण प्रतिभासनम् ? इति चेत् । नन्ववस्थाभ्योऽनवाप्तरूपभेदस्यावस्थानामिवात्मनस्त
द्भेदे सत्यभेदो न सङ्गच्छते । [T. 265b.] ततश्चास्यावस्थाना20 मिवात्मभेदमनुभवतः कथमवस्थातृत्वम् ? । अवस्थाभेदेऽप्यभिनरूपस्य तथा व्यवस्थानात् कथञ्चिद्भेदस्यापि भावाददोष इति चेत् । यदि यमात्मानं पुरोधाय अयमवस्थाता, अवस्थाश्चमाः' इति भण्यते तेनावस्थातद्वतोर्भेदस्तदा भेद एवेति ‘क
थञ्चित्' इत्यन्धपदमेतत् । ततोऽस्य प्रत्यक्षतायां अनात्मरूप25 विवेकिना रूपान्तरेणावभासनप्रसङ्गो न निवर्तते । अथ तेनात्मनाऽभेदः । अवस्थावद्भेदप्रसङ्गोऽवस्थातुः, तरवस्थानामभेदस्य वा । तयोरपि कथञ्चिद् भेदाभेदाविति चेत् । तयोस्तविस्थातबदात्मनोर्मेदवतोः कथञ्चिदभेदनिमित्तं रूपान्तरमिष्टं स्यात् ।
१. In Tib. this passage °अनुपलब्ध्या to तयोः (p. 85. line 15 ) is read after स्वभावः (p. 86. line 22 ) २. तदा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org