________________
सहेतुकविनाशखण्डनम् । ___ अत्रैव व्याप्तिमादर्शयति - "यो हि" इत्यादि । " न पुनः तद्भावे ” तत्स्वभावत्वे जनकात् [S. 86b.] हेतो हेत्वन्तरमपेक्षते ।" " न हि प्रकाशादयः" इत्यादिना दृष्टान्तविवरणम् । तदात्मताया हेत्वन्तरानपेक्षणेन व्याप्तिं तादात्म्यसाधकेन प्रमाणेन दर्शयति - " तदात्मनो ” यो यस्य स्वभावः तत्स्वभावस्य * तादात्म्याभावे " हे- 5 त्वन्तरमपेक्षमाणस्य स्वहेतोनिष्पन्नस्यापि तत्स्वभावत्वाभावे " नैरात्म्यस्य " निःस्वभावतायाः प्रसङ्गात् । तद्वत् " प्रकाशादिवत् " न पुनः " पश्चात् [T. 263b.] * तदात्मतायां " अस्थितिधर्मात्मतायां " हेत्वन्तरमपेक्षत ” इति प्रमाणफलम् । * अस्थितिधर्मा चेत् ” नश्वरस्वभावश्चेत् । “ खभावतः " स्वहेतुभ्यो “ निष्पन्नो " भाव इति 10 पक्षधर्मोपसंहारः। विरुद्धव्याप्तोपलब्धिश्चेयम् , हेत्वन्तरापेक्षानपेक्षयोः परस्परपरिहारस्थितलक्षणतया विरोधात्, हेत्वन्तरानपेक्षया च तत्स्वाभावताया व्याप्तत्वात् ।
[$ १५. स्वतो विनश्वरत्वसाधकहेतावनेकान्तदोषोद्धारः।] अत्र च परस्य वचनावकाशमाशङ्कयाह - " बीजादिवत् ” इ-15 त्यादि । " स्यादेतत् ” इत्यादिना एतदेव विभजते " केवला न जनयन्ति " इति । कुतः ? इति चेत्, सलिलक्षित्यादेः खहेतुव्यतिरिक्तस्याङ्कुरादिजननवभावानामपि [S. 87a.] बीजादीनां तदात्मतायामपेक्षणात् । ततश्च न पुनस्तद्भावे हेत्वन्तरमपेक्षन्त इत्यनेकान्तः । “ तद्वद् भावोऽपीगन्धनादिः खहेतोनश्वरात्मा निष्पन्नोऽपि 20 " विनाशे " विनश्वरात्मतायां स्यादिति दान्तिकम् । “न” बीजादिवदनेकान्तः । कुतः ? " तस्वभावस्य " अङ्करादिजननखभावस्य बीजादेरङ्कुरादिजननात्, तदात्मतायां हेत्वन्तरानपेक्षणात् । यश्च क्षित्यादिकमपेक्षमाणो न जनयति कुशूलाद्यवस्थः तस्य "अजनकस्य च अतत्वभावत्वात अङ्करादिजननखभावत्वाभावात् । तत्र तदात्म- 25 तालक्षणो हेतुः न वर्तत एवेति न तेनानेकान्तः ।
[ $ १६. प्रत्यक्षेण बाधात् न प्रत्यभिज्ञया स्थिरैकभावसिद्धिः । ननु प्रत्यभिज्ञाप्रत्यक्षत एव बीजादिरेकखभावो लक्ष्यते । तत्र कुतोऽयं जननखभावस्वाजननखभावत्वलक्षणो भेदः ? य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org