________________
हेतु बिन्दु टीका ।
"
[S. 85b.] इन्धनादयः प्राग्वदुपलभ्येरन् । तदुपमर्देन ध्वंसस्योत्पत्तेः इति चेत् कथं तदुपमई । न तावत् प्रध्वंसाभावेन, इन्धनसत्ताकाले तस्याभावात् । नाग्यादिभिः, ध्वंसाविर्भाव एव तेषां व्यापारोपगमात् । न चोत्पन्नः प्रध्वंसाभाव इन्धना5 दीन् विहन्ति, यौगपद्यप्रसङ्गात् । ध्वंसेन विनाशने च विकल्पत्रयस्य तदवस्थत्वात् । ततश्चानवस्था । स एव ध्वंस इन्धनादेरम्यादिजन्मा निवृत्तिः, अतोऽस्यानुपलब्धिरिति चेत् । कथमन्योऽन्यस्य निवृत्ति: १, अतिप्रसङ्गात् । यदि चायं हेतुमांस्तद्भेदादात्मभेदं किं नानुभवति ? । शालियवाङ्कुरादयोऽपि कारण10 भेदादेवात्मभेदमत्यन्तविलक्षणमनुभवन्तोऽध्यक्षत एवावसीयन्ते । न त्वेवमनपेक्षित भावान्तरसंसर्गः च्युतिमात्रलक्षणो ध्वंसः । तस्याभिघाताग्निसंयोगादिकारणभेदेऽपि तुच्छरूपतयैकरूपस्य स्वज्ञानात्मन्यवभासनात् । नहि भावशून्यतां विहायापरं तत्र किञ्चिद् रूपमीक्षामहे । विस्तरतचैतत् क्षणभङ्गसिद्धी 15 विचारितमित्यास्तां तावदिह । [S. 862.] तस्मादग्न्यादिसंयोगकाले “ न तस्य किञ्चिद् भवति न भवत्येव केवल" मित्येवोपगन्तुं युक्तम् । यतो नायं कस्यचिदू [T. 263a.] भावेन नष्टो नाम किन्तु यतः स्वयमस्थिररूपतया भूतस्ततो नष्टो नाम । तेन नास्याऽभवनम् अन्यद्वा किञ्चिद् भवति । तथा च भवनधर्म्मणः 20 कस्यचिदभावाद् भावं भवन्तं कुतश्चिन्न करोतीति क्रियाप्रतिषेधं एवाग्निसंयोगादेः स्यात् । " एवं च " सति " कर्ता" अग्निसंयोगादि: " न भवति इत्यकर्तुरहेतुत्वमिति ” तस्मान्न विनाशहेतुः कश्चित् । " [ $ १४. वैयर्थ्यादपि विनाशे हेत्वयोगः । ]
८२
3
न केवलमसामर्थ्याद्विनाशहेत्वयोगः, किन्तु " वैयर्थ्याच " 25 तदेवाह - " यदि स्वभावतो नश्वरो " नशनशीलः स्वात्म" न्यनवस्थायी” स्थातुमशक्तो यथा सूच्यग्रे सर्वपः " तस्य न किञ्चिन्नाशकारणैः " । किं कारणम् ? । " स्वयं नाशात् " । " तत्स्वभावतयैव " अस्थिरस्वभावतयैव । नहि प्रकृत्यैव स्थातुमशक्ते सूच्यग्रे सर्षपे तदस्थितये प्रयासः फलवान् भवेत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org