________________
सहेतुकविनाशखण्डनम् । तथा हि - यदि स्वहेतुभावे भवतीति प्रतीयते सदित्यपि प्रतीयेत। यतोऽस्तीति सद् इति वदन्ति विद्वांसः। न चास्ति, भवति, भावः, सन्निति शब्दानामर्थभेदः परमार्थतः कश्चित् । अभावात्मकतयैव भवत्यसाविति चेत् । न । व्याहतत्वात् , यतो न भवतीत्यभाव उच्यते स कथं भवतीति व्यपदिश्यते ? । प्र- 5 तिष्ठितेन केनचिद् रूपेण स्वज्ञानात्मन्यप्रतिभासनात् न भाव इति चेत् । अत्यन्तपरोक्षाणां चक्षुरादीनामभावताप्रसङ्गः । न । तेषां ज्ञानहेतुरूपतया प्रतिभासनात् इति चेत् । न । अस्यापि भवितरूपतयाऽवभासनात् । [T. 262a.] सर्वरूपविवेकस्य च कथं भूत्या सम्बन्धः ? । केनचिद् रूपेणोन्मज्जनं हि भवनम् । 10 ज्ञानविषयतयाऽस्यापि च तहेतुरूपतयाऽवभासनस्य तुल्यत्वात्, अहेतोश्च विषयत्वायोगात् । अस्माकं त्वभावबुद्धयः स्ववासनापरिपाकान्वया निविषया एव । अभावस्य च भवितृत्वे कथं प्रर्युदासात् प्रसज्यप्रतिषेधो भिद्येत । असद्रूपस्य विधानेन पर्युदासात् [S.85a.] स भिद्यत इति चेत् । न । असद्रूपस्य भवन- 15 विरोधात् । भवतीति हि भूत्या सत्तयाऽभिसम्बध्यते । तत्र कथं सलूपस्य विधानम् ? । पर्युदास एवैको नार्थश्च स्यात् , सर्वत्र विधेः प्राधान्यात् । सोऽपि वा न भवेत् । यदि हि किश्चित् कुंतश्चित् निवत्यैत तदा तद्यतिरेकि संस्पृश्येत तत्पर्युदासेन । तच नास्ति । सर्वत्र निवृत्तिर्भवति इत्युक्ते वस्त्वन्तरस्यैव क- 20 स्यचित् विधानात् । तथाऽनेन वस्त्वन्तरमेवोक्तं स्यात् , न तयोविवेकः। अविवेके च न पर्युदासः। अप्रस्तुताभिधानं च स्यात् । भावनिवृत्तौ प्रस्तुतायां असदात्मनो वस्त्वन्तरस्यैव वि. धानात् । न चास्य स्वरूपेणासदात्मकत्वम् , स्वरूपेणाप्यसतः कार्यत्वविरोधात् । पररूपेण तु सर्वमेव वस्त्वसदात्मकमिति 25 नास्य घटादेः कश्चिद् विशेषः । [T. 262b.] भवतु वाऽयमभावोज्यादिभ्यस्तद्भावे किंमिति नोपलभ्यन्ते काष्ठादयः । तथा हि- अश्यादीनामन्यक्रियायां चरितार्थत्वादनिवृत्ता एवं तेभ्यः
१. सन्निति सामान्यशब्द नाम् - Tib. २. चक्षुरादिभिः । ३. ब्राह्मणादि (प्रथमं टिप्पणम् ) क्ष. त्रिया (द्वि. टि.)। ४. निवर्त्यव्यतिरेकि । ५. तुच्छरूपायाम्। . . . . . .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org