SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ .. हेतुबिन्दुटीका। . [$ १३. भावाभावपक्षस्यापि समालोचनम् । ] न केवलं भावस्वभावो भावान्तरं वा विनाशहेतुना न क्रियते भावाभावोऽपि न क्रियत इत्याह - " नापि " इत्यादि । कुतः ? इति चेत् , “ अभावस्य विधिना ” पर्युदासेन विवक्षिता5 ड्रावाद"न्यतया कार्यत्वो"पगमे” क्रियमाणे किमिन्धनादिरूप एवासौ ? अथार्थान्तरम् ? इति " व्यतिरेकाव्यतिरेकविकल्पानतिक्रमात् ” । तत्र चोक्त एव दोषः। ननु प्रसज्यप्रतिषेधात्मा तुच्छरूपोऽसावळ्यादिजन्योऽभ्युपेयते । तद्भावे चेन्धनादीनां नैःस्वाभाव्यात् कुतः पूर्वदोषाव10 सरः । स चावश्यममयादिभावाभावानुविधायितया [S. 84a.] तत्कार्यस्तगावव्यवहारस्यान्यत्रापि तन्निबन्धनत्वात् । तदुक्तम् - “सन् बोधगोचरप्राप्तस्तद्भावे नोपलभ्यते। नश्यन् भावः कथं तस्य न नाशः कार्यतामियात् ॥ प्रागभूत्वा भवन भावो हेतुभ्यो जायते यथा। 15 भूत्वाऽपि न भवंस्तवद्धतुभ्यो न भवत्ययम् ॥” इति । अत आह - " भावप्रतिषेधे”त्यादि। अयमभिप्रायः - यद्यनपेक्षितभावान्तरसंसर्गश्युतिमात्रमेव तुच्छरूपं ध्वंसः तदा तत्र कारकव्यापारो नैव सम्भवति भवनधर्मिमण्येव तत्सम्भवात् । तस्याप्य[T. 261b.भूत्वा भावोपगमात् कार्यता न विरुध्यत 20 इति चेत् । न । भवनधर्मणो भावरूपताप्राप्तेरभावत्वहानेः । यतो भवतीति भावो भण्यते , नापरमथुरादेरपि भावशब्दप्रवृत्तिनिमित्तम् । अर्थक्रियासामर्थ्यमिति चेत् । सर्वसामर्थ्यविरहिणस्तर्यस्य कथं प्रतीतिविषयता ? । नाकारणं प्रतीति विषयः, अतिप्रसङ्गात् । तदविषयस्य वा कथं हेतुमत्तावगतिः ? 25 वस्तुता वा ?, येनोच्यते 'तुच्छरूपमेव तद् वस्तु' इति । प्रती. तिजनकत्वे वा कथं न [S. 84b.] सामर्थ्यसम्बन्धिता? । सदितिप्रत्ययाऽविषयस्य कथं भावतेति चेत् । कार्यताऽप्यस्य कथम् ? । स्वहेतुभावे भावात् इति चेत् । कथं तर्हि सत्प्रत्ययाऽविषयता ?। १. अग्निः । २. अग्न्यादेः। ३. भावः । ४. भावशब्दप्रवृत्तिनिमित्तं अभावस्यापि यदि सामर्थ्यमस्ति तदा भावत्वम् अथ नास्ति तत्राह । Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.001073
Book TitleHetubindu Tika
Original Sutra AuthorDharmakirti Mahaswami
AuthorArchatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year1949
Total Pages523
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, B000, & B999
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy