________________
सहेतुकविनाशस्य खण्डनम् ।
मभिधानीयम् । तस्मिं (स्मिन् ) सति तन्निवृत्तिरिति चेत्, अहो वचनकौशलम् यतो निवृत्तेस्तुच्छस्वभावतानङ्गीकरणात् तदेव भावान्तरमङ्गारादिकं निवृत्तिं ब्रूषे । तदयमर्थः सम्पन्न: - अङ्गारादिभावेऽङ्गारादिभावादङ्गारादिकं ध्वंसः काष्ठादेरिति । न चाङ्गारादिभावे तद्भावः स्वात्मनि हेतुभावायोगात् । अग्या- 5 दिभ्यश्च तदुत्पादवचनादिन्धनाद्युपमर्हेनाङ्गारादि [T. 260b. ]भावात् अस्य ध्वंसरूपतेति चेत् । कोऽयमुपमद्द नाम ? | यदि निवृत्तिः साऽङ्गारादिलक्षणैवेति न पूर्वस्माद् विशिष्यते । तस्मात् [S. 83a.] स्वरसतो निवर्त्तते काष्ठादिः, अभ्यादिभ्यस्त्वङ्गारादिजन्म इत्येव भद्रकम्, अन्यथा काष्ठादे "स्तथोपलब्ध्यादि - 10 प्रसङ्गः " कथं न स्यात् ? |
अपि च - यदि भावान्तरं प्रध्वंसाभावो य एतेऽनुपजातविकाराः प्रदीपबुद्ध्यादयो ध्वंसन्ते तेषां कतरद् भावान्तरं प्रध्वन्सो (ध्वंसो) व्यवस्थाप्येत ? । तेऽप्यव्यक्ततामात्मभावं च विकारमेव ध्वंसं समालम्बन्त इति चेत् । न, प्रदीपादेर्भावरू - 15 पाव्यक्तताभावे प्रमाणाभावात् । यदि हि शक्तिरूपतापत्तिरव्यक्तता तदा शक्तेः कार्यदर्शनोन्नीयमानरूपत्वात् तदभावे कथं प्रदीपादयः शक्त्यात्मनाऽवस्थिताः कल्पेरेंन् ? । अथोपलब्धियोंग्यताविकलात्मतापत्तिरव्यक्तिः; अत्रापि तदात्मनाऽवस्थितौ नैव प्रमाणमस्ति । न चाप्रमाणकमाद्रियन्ते वचो विपश्चितः । 20 आत्मनश्चासत्त्वात् कथं तद्भावो बुद्ध्यादीनां [S. 83b.] विकार: परिणामश्च ? । अन्यत्र विहितप्रतिक्रियत्वात् नेह प्रतन्यत इत्यलं प्रसङ्गेन ।
७९
स्यान्मतम् - भावान्तरेणाङ्गारादिनाऽऽवृत्तस्वात् इन्धनादेस्तथोपलब्ध्यादयो न भवन्तीत्यत आह - " नापि " इत्यादि । स्व- 25 भावान्तरम् "अन्यस्येन्धनादेरा "वरणमपि " न " युज्येत " " तदवस्थे " अविचलित[T. 261a.] रूपे “ तस्मिन्निन्धनादौ स" त्यावरणस्यापि” न केवलमनुपलब्ध्यादे “रयोगात्” ।
१. प्रदीप । २. बुद्धिः । ३. कार्य । ४. कल्प्येरन् - Tib. ५. आत्मता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org