________________
२
व
हेतुबिन्दुटीका। .. त्मनो निवृत्तस्यान्यथाभावः तदात्मा शक्यते कर्तुम् , तस्य हेत्वन्तरात् पश्चाद् भवतोऽर्थान्तरत्वप्रसङ्गात् , तस्यैवान्यथात्वायोगात्, तत्र हेतुव्यापारस्य कल्पयितुमशक्यत्वात् । _अथवा त्रितये समीक्ष्यमाणे यत् तावत् विनाश्यं काष्ठादि 5 न तत्स्वभावमेवाग्निसंयोगादिविनाशहेतुः करोति तस्य स्वहे"तुभ्य एव निर्वृत्तेरिति ।
[$ १२. कुमारिलेष्टभावान्तरस्वभावपक्षस्य समालोचनम् ] कुमारिलस्तु मन्यते - नाग्निसंयोगादिना भावस्वभाव एव क्रियते किन्त्विन्धनादेः [S. 82a.] प्रध्वंसाभावः। स चेन्धनादि10 रूपविकलमगारादिकमुत्तरं भावान्तरमेव । तदुक्तम् - “नास्तिता पयसो दनि प्रध्वंसाभावलक्षणम् ॥"
[ श्लोकवा० अभाव ३ ] इति । तथाविधस्य चाभावस्य हेतुमत्तोपगमो नैव विरुध्यते। तथा
चाह कश्चित् - 15. "भावान्तरविनिर्मुक्तो भावोत्रानुपलम्भवत् ।
- अभावः सम्मतस्तस्य हेतोः किन्न समुद्भवः ? ॥” इति । तदेतत् कौमारिलं [T. 260a.] दर्शनमपनुदन्नाह - " नाऽपि " इत्यादि । यद्युत्तरं कार्यात्मकं "भावान्तरमेव” अभावस्तदाऽग्निसंयोगादयोऽङ्ग(ङ्गा)रादिजन्मनि व्याप(प्रि)यन्त इतीष्टमेवास्माकम् , किन्तु 20 " भावान्तरकरणे " अभ्युपगम्यमानेऽम्यादीनामिन्धनादावव्यापारात्
तदवस्थमेवेन्धनादिकम् । ततश्च यथाऽग्निसंयोगात् प्राग् इन्धनादेरुपलब्धिः अन्या च तत्साध्याऽर्थक्रिया तथाऽङ्गाराद्युत्पत्तावप्युपलब्ध्यादेः प्रसङ्गः।
ननु भावान्तरस्य प्रध्वन्सा(ध्वंसा)भावरूपतायां तदुत्प25 त्ताविन्धनादीनां [S. 82b.] प्रध्वस्तत्वादसतां कथं तथोपलब्ध्या
दिप्रसङ्गः १ । सत्यम् , एवं मन्यते-सर्वस्येन्धनादेरन्यस्य गवादेरपि तथाभावो मा भूत् इत्यङ्गारादेः ध्वंसव्यवस्थायां निबन्धन
१. नोऽनिवृत्तस्या - Tib. २. अन्यथाऽभाव'- Tib. ३. अस्थिरस्वभावता। ४. स्थिरात्मा ५. काष्ठत्वम् । ६. °साभाव इष्यते-श्लोकवा० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org