________________
सहेतुकविनाशस्य खण्डनम् ।
प्रागुक्तमपि विपश्चयितुं पूर्व्वपक्षोपन्यासः । अकृतकलक्षणं तु सत्त्वं न सम्भवत्येव, नियामकं हेतुमन्तरेण देशकालखभावनियमायोगात् । ततः पूर्वाचार्यैन [S. 81a.] तस्यैकाङ्गवैकल्यादेव “ सदकारणवत् नित्यम् ” [ वैशे० ४.१.१.] इति नित्यतासम्भव इति न तदात्मतां प्रति यत्नः कृतः । शास्त्रकारस्तु सामान्येन सत्त्वस्य 5 क्षणिकस्वभावतां कृतकलक्षणस्य अपि च, देशकालस्वभावविप्रकृष्टस्यापि वस्तुस्थित्यैव तदात्मताम् अर्थक्रियाविरोधेन, न परोपगतावश्यम्भाविविनाशस्याहेतुकतया विशेषाभावात् उत्पन्नमात्रस्याभावप्रसङ्गेन प्रतिपादयिष्यति ।
"
[ ११. सहेतुकं विनाशं निरसितुं तस्य भावस्वभावताया: समालोचनम् ।] 10 तत्र पूर्वाचार्योक्तं ' सर्व्वस्य सतः कृतकस्यावश्यमन्ते हेतुकृतो विनाश इति यः परैरिष्यते तं प्रत्यनपेक्षत्वं ख्यापयितुमुपक्रमते " विनाशहेत्वयोगादिति
"" 1
७७
“
यदि तर्हि नाशस्य हेतुर्नास्ति, स तेषां कृतकानां सतामवश्यम्भावी विनाश: कुत: ? । न ह्याकस्मिकः कश्चित्स्वभावो युक्त 15 इत्याह - स्वभावत एव ”। भवत्यस्मात् कार्यम् इति भावशब्दो हेतुवचनः । तेन स्वहेतुभ्य एव " नश्वराः " नशनशीलाः, सूच्यग्रे सर्षपा इवानवस्थायिनः स्वात्मनि “ भावा जायन्ते " 1 ८८ नैषां ११ कृतकलक्षणानां सतां भावानां " स्वहेतुभ्यो निष्पन्नानां ” “ अन्यतः " अभिघातादे "विनाशोत्पत्तिः " । कुतः ? [S. 81b.] [T. 259a. ] "तस्या"-20 भिघाताग्निसंयोगादेस्तद्धेतुतयोपगतस्य " असामर्थ्यात् " । तथाहि - अग्निसंयोगादिकाले त्रितयं लक्षयामः । तदेव काष्ठादिकं विनाश्यम्, अङ्गारादिकमवस्थान्तरम्, काष्ठादिनिवृत्तिलक्षणं चाभावं तुच्छरूपं, नापरं यत्राग्निसंयोगादेर्व्यापारः चिन्त्येत । एतावत्यां च वस्तुगतौ न कचिदत्र विनाशहेतोः सा - 25 मर्थ्यं युज्यते । यतो " नहि विनाशहेतुर्भाव" स्येन्धनादेः स्वहेतुभ्यः स्थिररूपस्योत्पन्नस्य " स्वभावमेवा" स्थिरात्मतालक्षणं " करोति ” । कुतः ? " तस्येन्धनादेः " स्वहेतुभ्य " एवं " निर्वृत्तेः " । नहि स्थिरा१. क्षणिकत्व' । २. कृतकाऽकृतक विशेषविरहेण । ३. विनाशस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org