________________
- हेतुबिन्दुटीका । ... प्रयोगयोरभिधीयमानेन तादात्म्याक्षेपद्वारेणार्थादितराक्षेप इ. च्यते , तदा प्रमाणसिद्धैव तत्वभावता तयोनिबन्धनं [S. 80a.] न शब्दमात्रतः प्रतीयमानेत्यभिप्रायवानाह- " कथमिदम् " इत्यादि । "येने"ति सतो नश्वरखभावत्वेन । सत्व(त्व)लक्षणस्य 5 हेतोः क्षणिकत्वस्वभावत्वेनेति यावत् । पृच्छतश्वायमभिप्रायः - इह [T. 258b. ] द्विविधाः सन्तः - कृतकाश्च घटादयः अकृतकाश्चाकाशादयः । तत्र ये तावदकृतकास्ते “ सदकारणवत् नित्यम् " [वैशे० ४.१.१.] इति नित्यलक्षणयोगादनित्या एव न भवन्ति कुत एव
क्षणिकाः? इति न सत्व(त्व)स्य क्षणिकत्वखभावता। येऽपि सन्तः 10 कृतकास्तेषामपि मुद्गराद्यन्वयव्यतिरेकानुविधायितया विनाशस्य
सहेतुकत्वात् तहेत्वसन्निधावविनाशात् कृतकात्मनोऽपि सत्व(त्त्व)स्य क्षणिकत्वस्वभावता न समस्त्येवेति नान्वयव्यतिरेकयोः सम्भव इति । अवश्यं च विनाशो दण्डाद्यन्वयव्यतिरेकानुविधायी, दृष्टत्वात् । तथा हि -.. 15 "अभिघाताग्निसंयोगनाशप्रत्ययसन्निधिम् ।
विना संसर्गितां याति न विनाशो घटादिभिः ॥" [S. 80b.] अन्यत्रापि चान्वयव्यतिरेकानुविधानमेव हेतुमत्ताव्यवहारनिबन्धनमभ्युपेयते सौगतैरपि, तदिहाप्यस्तीति किन्न तद्यवहारः
प्रवर्त्यते ? इति। 20 ननु चान्वयनिश्चयं प्रतिपादयता बाधकप्रमाणवृत्तिवशात् तत्वभावता पूर्वमेव प्रतिपादिता 'अन्वयनिश्चयोऽपि स्वभावहेतौ' इत्यादिवचनात् । तत् कुतोऽस्य पृर्वपक्षस्यावसरः ? । सत्यम्, किन्तु पूर्वाचार्यैः कृतकत्वस्य क्षणिकतायां साध्यायां परैः कृतकानामन्तेऽवश्यं हेतुनिबन्धनविनाशोपगमात् तद्देव25 योगप्रतिपादनेनानपेक्षा विनाशं प्रति विपर्यये बाधकं प्रमाणं तादात्म्यप्रसाधकमुक्तं तत् प्रसङ्गमुखेन कृतकलक्षणस्यैव सत्त्वस्य तेदात्मतां गमयति नान्यस्य [T. 259a.] इति दर्शयितुम् । अर्थक्रियाविरोधलक्षणं तु . सर्वस्य सत्त्वस्य इति वस्तुमात्रेण १. परः । २. एव । ३. अङ्कुरादौ । ४. विनाशे । ५. आपत्ति । ६. क्षणिक । ७. प्रमाणम् ।
AAAA
८. सामान्येन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org