________________
६४
जैनतर्कभाषायाः [पृ० २७. पं० १४"नामं ठवणा दविए ति एस दवडियस्स निक्खेवो।
भाषो उ पञ्जवडिअस्स परूवणा एस परमत्थो॥" सन्मति. १. ६. पृ० २७ पं० १४. "ननु नया नैगमादयः प्रसिद्धाः ततस्तैरेवाऽयं विचारो युज्यते । अथ तेऽत्रैव द्रव्यपर्यायास्तिकनयद्वयेऽन्तर्भवन्ति, तर्युच्यतां कस्य कस्मिन्नन्तर्भावः ?, इत्याशङ्कयाह" 5 [ विशेषा• गा• ७५.] -'नैगमस्य' इति
पृ० २७. पं० २४. 'उज्जुसुअस्स'-"उज्जुसुअस्स इत्यादि-ऋजु अतीतानागतपरकीयपरिहारेण प्राञ्जलं वस्तु सूत्रयति-अभ्युपगच्छतीति ऋजुसूत्रः । अयं हि वर्तमानकालभाव्येव वस्त्वभ्युपगच्छति नातीतं विनष्टत्वात् नाप्यनागतमनुत्पन्नत्वात् । वर्तमानकालभाव्यपि स्वकीय
मेव मन्यते स्वकार्यसाधकत्वात् स्वधनवत्-परकीयं तु नेच्छति स्वकार्याप्रसाधकत्वात् परधनवत् । 10 तस्मादेको देवदत्तादिरनुपयुक्तोऽस्य मते आगमत एक द्रव्यावश्यकमस्ति 'पुहुत्तं नेच्छइ ति'
अतीतानागतभेदतः परकीयभेदतश्च पृथक्त्वं पार्थक्य नेच्छत्यसौ । किं तर्हि !, वर्तमानकालीनं स्वगतमेव चाभ्युपैति तश्चैकमेव इति भावः ।" -अनु० टी० सूत्र• १४. पृ. १८.
पृ० २७. पं० २६. 'कथं चायं'-"इदमुकं भवति-यो घनाकारमपि भावहेतुत्वात् द्रव्यमिच्छति ऋजुसूत्रः स साकारामपि विशिष्टेन्द्रादिभावहेतुत्वात् स्थापना किमिति नेच्छेत् !, 15 इच्छेदेव नात्र संशयः ।" -विशेषा० बृ० गा० २८४९.
पृ० २७. पं० २८. 'किञ्च'-"उपपत्त्यन्तरेणापि द्रव्यस्थापनेच्छामस्य साधयन्नाह-ननु ऋजुसूत्रस्तावत् नाम निर्विवादमिच्छति । तच्च नाम इन्द्रादिसज्ञामानं वा भवेत् , इन्द्रार्थरहितं वा गोपालदारकादि वस्तु भवेदिति द्वयी गतिः । इदं चोभयरूपमपि नाम भावकारणमिति कृत्वा
इच्छन्नसौ अजुसूत्रो द्रव्यस्थापने कथं नाम नेच्छेत् ।। भावकारणत्वाविशेषादिति भावः । 20 अथ इन्द्रादिकं नाम भावेऽपि भावेन्द्रेऽपि सन्निहितमस्ति तस्मादिच्छति तहजुसूत्रः । तर्हि
जितमस्माभिः अस्य न्यायस्य द्रव्यस्थापनापक्षे सुलभतरत्वात् । तथाहि-द्रव्यस्थापने अपि भावस्य इन्द्रपर्यायस्य आसन्नतरौ हेतू शब्दस्तु तन्नामलक्षणो बाह्यतर इति । एतदुक्तं भवति-इन्द्रमूर्तिलक्षणं द्रव्यम् , विशिष्टतदाकाररूपा तु स्थापना । एते द्वे अपि इन्द्रपर्यायस्य तादात्म्येनावस्थितत्वात्
सन्निहिततरे शब्दस्तु नामलक्षणो वाच्यवाचकमावसम्बन्धमात्रेणैव स्थितत्वात् बाह्यतर इति । 25 अतो भावे सन्निहितत्वात् नामेच्छन्न सूत्रो द्रव्यस्थापने सन्निहिततरत्वात् सुतरामिच्छेदिति ।
-विशेषा बृ० गा० २८५०-१ पृ० २८.५० ४. 'तन्नानवद्यम्' "तत् परिहरन्नाह-इह संग्रहिकोऽसंग्रहिकः सर्वो वा नैगमस्तावद् निर्विवादं स्थापनामिच्छत्येव । तत्र संग्रहिकः संग्रहमतावलम्बी सामान्यवादीत्यर्थः, असं
ग्रहिकस्तु व्यवहारनयमतानुसारी विशेषवादीत्यर्थः, सर्वस्तु समुदितः । ततश्च यदि संग्रहमताव30 लम्बी नैगमः स्थापनामिच्छति, तर्हि संग्रहस्तत्समानमतोऽपि तां किं नेच्छति !, इच्छेदेवेत्यर्थः ।
अथ यद्यपि सामान्येन सर्वो नैगमः स्थापनामिच्छति तथापि व्याख्यानतो विशेषप्रतिपत्तेरसंग्रहिकोऽसौ तामिच्छतीति पतिपत्तव्यम्, न संग्रहिकः, न ततः संग्रहस्य स्थापनेच्छा निषिध्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org