________________
६३
१० २७. पं० १२.] वात्पर्यसमहा वृत्तिः।
पु० २७. पं० १. 'यदि च घटनाम'-"अयममिप्रायः-वस्तुनः स्वरूपं नाम, तत्प्रत्ययहेतुस्वात् स्वधर्मवत् , इह यद् यस्य प्रत्ययहेतुस्तत् तस्य धर्मः, यथा घटस्य स्वधर्मा रूपादयः, बच्च यस्य धर्मो न भवति न तत् तस्य प्रत्ययहेतुः, यथा घटस्य धर्माः पटस्य, संपद्यते च पटामिधानाद् घटे संप्रत्ययः, तस्मात् तत् तस्य धर्मः, सिद्धश्च हेतुरावयोः, घटशब्दात् पटादिव्यवच्छेदेन षट इति प्रतिपत्त्यनुभूतेः ।-विशेषा• बृ• गा० ६१.
पृ० २७. पं० ६. 'साकारं च सर्व'-"मतिस्तावत् ज्ञेयाकारग्रहणपरिणतत्वात् आकारवती, तदनाकारवत्त्वे तु नीलस्येवं संवेदनं न पीतादेः इति नैयत्यं न स्यात् नियामकाभावात्। नीलाद्याकारो हि नियामकः, यदा च स नेष्यते तदा 'नीलग्राहिणी मतिः न पीतादिग्राहिणी' इति कथं व्यवस्थाप्यते विशेषाभावात् ।। तस्मादाकारवत्येव मतिरभ्युपगन्तव्या। शब्दोपि पौद्गलिकत्वादाकारवानेव । घटादिकं वस्तु आकारवत्त्वेन प्रत्यक्षसिद्धमेव । तस्मात् यदस्ति तत् सर्वमाकारमयमेव 10 यत्त्वनाकारं तन्नास्त्येव वन्ध्यापुत्रादिरूपत्वात् तस्य ।।-विशेषा वृ• गा० ६४. __ पृ० २७. पं० १०. 'चतुष्टया'-"घट-पटादिकं यत् किमपि वस्स्वस्ति लोके तत् सर्व प्रत्येकमेव निश्चितं चतुष्पर्यायम् । न पुनर्यथा नामादिनयाः प्राहुः यथा केवलनाममयं वा, केवलाकाररूपं वा, केवलद्रव्यताश्लिष्टं वा केवलभावात्मकं वा । प्रयोगः-यत्र शब्दार्थबुद्धिपरिणामसदावः तत् सर्वं चतुष्पर्यायम् । चतुष्पर्यायत्वाभावे शब्दादिपरिणामभावोऽपि न दृष्टः, यथा शशशृङ्गे । 15 तस्माच्छब्दादिपरिणामसद्भावे सर्वत्र चतुष्पर्यायत्वं निश्चितम् इति भावः । इदमुक्तं भवतिअन्योन्यसंवलितनामादिचतुष्टयात्मन्येव वस्तुनि घटादिशब्दस्य तदभिधायकत्वेन परिणतिर्दृष्टा, अर्थस्यापि पृथुबुध्नोदराकारस्य नामादिचतुष्टयात्मकतयैव परिणामः समुपलब्धः, बुद्धेरपि तदाकारग्रहणरूपतया परिणतिस्तदात्मन्येव वस्तुनि अवलोकिता । न चेदं दर्शनं भ्रान्तं बाधकाभावात् । नाप्यदृष्टाशयाऽनिष्टकल्पना युक्तिमती, अतिप्रसङ्गात् । नहि दिनकराऽस्तमयोदयोपलब्धरात्रिन्दि 20 वादिवस्तूनां बाधकसंभावनयाऽन्यथात्वकल्पना संगतिमावहति । न चेहापि दर्शनाऽदर्शने विहायाऽन्यद् निश्चायकं प्रमाणमुपलभामहे । तस्मादेकत्वपरिणत्यापननामादिमेदेष्वेव शब्दादिपरिणतिदर्शनात् सर्व चतुष्पर्यायं वस्त्विति स्थितम् ।" -विशेषा। बृ• गा० ७३. पृ० २७. पं० १२. 'तत्र नामादित्रयम्'-.
___ “दबडियनयपयडी सुद्धा संगहपरूवणाविसओ।
__पडिरूवे पुण वयणत्थनिच्छओ तस्स ववहारो॥" सन्मति. १. ४. "अत्र च संग्रहनयः शुद्धो द्रव्यास्तिकः व्यवहारनयस्तु अशुद्धः इति तात्पर्यार्थः ।।
-सन्मतिटी• पृ. ३१५. "मूलणिमेण पञ्जवणयस्स उज्जुसुयवयणविच्छेदो।
तस्स उ सहाइआ साहप्पसाहा मुहुममेया ॥" सन्मति. १.५. 30. __ "पर्यायनयस्य प्रकृतिराया मजुसूत्रः स त्वशुद्धा, शब्दः शुखा, शुद्धतरा सममिलतः, अत्यन्ततः शुद्धा त्वेवंभूत इति ।" -सन्मतिटी• पृ. ३१७.
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org