________________
६२
जैनतर्कभाषायाः
[पृ० २६. पं०४मात्रतयैव वर्तते । अथवा सद्भावतः स्थितमन्वर्थे अनुगतः संबद्धः परमैश्वर्यादिकोऽर्थो यत्र सोऽन्वर्थः शचीपत्यादिः । सदावतस्तत्र स्थितं भृतकदारकादौ तर्हि कथं वर्तते ?, इत्याह-तदर्थनिरपेक्षं तस्येन्द्रादिनाम्नोऽर्थस्तदर्थः परमैश्वर्यादिस्तस्य निरपेक्षं सडेतमात्रेणैव तदर्थशून्ये भृतकदारकादौ वर्तते इति पर्यायानभिधेयम् , स्थितमन्यार्थे, अन्वर्थे वा, तदर्थनिरपेक्षं यत् कचिद् 5 मृतकदारकादी इन्द्राद्यभिधानं क्रियते तद् नाम, इतीह तात्पर्यार्थः ।
प्रकारान्तरेणापि नाम्नः स्वरूपमाह-याहच्छिकं चेति । इदमुक्तं भवति-न केवलमनन्तरोक्तम् , किन्त्वन्यत्रावर्तमानमपि यदेवमेव यदृच्छया केनचिद् गोपालदारकादेरभिधानं क्रियते, तदपि नाम, यथा डित्थो डवित्थ इत्यादि । इदं चोभयरूपमपि कथंभूतम् !, इत्याह-यावद्
द्रव्यं च प्रायेणेति-यावदेतद्वाच्यं द्रव्यमवतिष्ठते तावदिदं नामाप्यवतिष्ठत इति भावः। किं 10 सर्वमपि !। न, इत्याह-प्रायेणेति, मेरु-द्वीप-समुद्रादिकं नाम प्रभूतं यावद्द्व्य मावि दृश्यते,
किञ्चित्तु अन्यथापि समीक्ष्यते, देवदत्तादिनामवाच्यानां द्रव्याणां विद्यमानानामपि अपरापरनामपरावर्तस्य लोके दर्शनात् । सिद्धान्तेऽपि यदुक्तम्-'नामं आवकहिय ति' तत् प्रतिनियतजनपदादिसंज्ञामेवामीकृत्य, यथोत्तराः कुरव इत्यादि । तदेवं प्रकारद्वयेन नामः स्वरूपमत्रोक्तम् । एतच्च तृतीय
प्रकारस्योपलक्षणम्, पुस्तक-पत्र-चित्रादिलिखितस्य वस्त्वभिधानभूतेन्द्रादिवर्णालीमात्रस्याप्यन्यत्र 15 नामत्वेनोक्तत्वादिति । एतच्च सामान्येन नाम्नो लक्षणमुक्तम् ।"--विशेषा• वृ० गा० २५.
"यद्वस्तुनोऽभिधानं स्थितमन्याथै तदर्थनिरपेक्षम् ।
पर्यायानभिधेयं च नाम यादृच्छिकं च तथा ॥" अस्या आर्याया व्याख्या अनुयोगद्वारटीकातः [ पृ० ११] अवसेया।
पृ० २६. पं० ४. 'क्वचिदनुपयोगेपि'-"इदमुक्तं भवति-योऽनुपयुक्तो जिनप्रणीतां 20 मजलरूपां प्रत्युपेक्षणादिक्रियां करोति स नोआगमतो ज्ञशरीर-मव्यशरीरातिरिकं द्रव्यमङ्गलम् ,
उपयोगरूपोऽत्रागमो नास्तीति नोआगमता । ज्ञशरीर-भव्यशरीरयोर्ज्ञानापेक्षा द्रव्यमालता, अत्र तु क्रियापेक्षा, अतस्तद्व्यतिरिक्तत्वम् , अनुपयुक्तस्य क्रियाकरणात् तु द्रव्यमालत्वं भावनीयम् , उपयुक्तस्य तु क्रिया यदि गृह्यत तदा भावमङ्गलव स्यादिति भावः ।---विशेषा• पृ. गा० ४६. पृ० २६. पं० ८. 'विवक्षित'_ "भावो विवक्षितक्रियाऽनुभूतियुक्तो हि वै समाख्यातः ।
सर्वज्ञैरिन्द्रादिवदिहेन्दनादिक्रियाऽनुभवात् ॥” इति । "अत्रायमर्थः-भवनं विवक्षितरूपेण परिणमनं मावः, अथवा भवति विवक्षितरूपेण संपद्यत इति भावः । कः पुनरयम् !, इत्याह-वक्तुर्विवक्षिता इन्दन-ज्वलन-जीवनादिका या क्रिया
तस्या अनुभूतिरनुभवनं तया युक्तो विवक्षितक्रियानुभूतियुक्तः, सर्वज्ञैः समाख्यातः । क इव !, 30 इत्याह-इन्द्रादिवत् स्वर्गाधिपादिवत्,. आदिशब्दाज्ज्वलन-जीवादिपरिग्रहः । सोऽपि कथं
भावः !, इत्याह-इन्दनादिक्रियानुभवात् इति, आदिशब्देन ज्वलन-जीवनादिक्रियास्वीकारः, विवक्षितेन्दनादिक्रियान्वितो लोके प्रसिद्धः पारमार्थिकपदार्थो माव उच्यते। -विशेषा• बृ० मा०४९.
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org