________________
पृ० २५. पं० १९. तात्पर्यसमहा वृत्तिः । ___ पृ० २३. पं० २९. 'स्थितपक्षत्वात्'-अत्रायं भावः-स्थितपक्षः सिद्धान्तपक्ष इति गीयते । तथा च सिद्धान्तपक्षे ज्ञानादित्रयादेव मोक्ष इति नियमात् ज्ञानादित्रयपर्याप्तैव मोक्षनिरूपितकारणता शिक्षाऽभ्यासप्रतिभात्रयपर्याप्ता काव्यकारणतेव पर्यवस्यति न तु तृणारणिमणिवत् प्रत्येकज्ञानादिविश्रान्ता ।
नैगमादिनयानां गते पुनः मोक्षनिरूपितकारणतायाः प्रत्येकं ज्ञानादिषु, वहिकारणतायाः प्रत्येकं 5 तृणारणिमणिष्विव विश्रान्ततया न तेषां स्थितपक्षत्वं सम्यग्दृष्टित्वं वा । अयमेव हि नयवादसिद्धान्तवादयो दो यन्नयाः त्रीनपि ज्ञानादीन् मोक्षकारणत्वेन मन्यमाना अपि प्रत्येकस्मिन् स्वातव्येणैव कारणत्वं कल्पयन्तस्त्रीनपि पृथक् पृथक् मोक्षकारणत्वेन स्थापयन्ति । तन्मते हि ज्ञानमात्रसेविनाम् , दर्शनमात्रसेविनाम् , चारित्रमात्रसेविनां च तुल्यतया मोक्षाधिकारात् । सिद्धान्तवादस्तु न कुतोऽपि ज्ञानादेरेकैकस्मात् मोक्षलाममिच्छति किंतु-परस्परसहकारिभावापन्नात् तत्रयादेव। 10 अत एव व्यस्तकारणतावादी नयः समस्तकारणतावादी च सिद्धान्त इत्यप्यभिधातुं शक्यम् । अत्रार्थे विशेषा० २६३२. गाथानुसन्धेया।
पृ० २४. पं० ६. 'किंतु भावघटस्यापि'-"अथवा प्रत्युत्पन्नऋजुसूत्रस्याविशेषित एव सामान्येन कुम्भोऽभिप्रेतः, शब्दनयस्य तु स एव सद्भावादिभिः विशेषिततरोऽभिमतः इत्येवमनयोर्भेदः । तथाहि-स्वपर्यायैः परपर्यायैः उभयपर्यायैश्च सद्भावेन असद्भावेन उभयेन चार्पितो 15 विशेषितः कुम्भः-कुम्भाकुम्भावक्तव्योभयरूपादिभेदो भवति-सप्तमगीं प्रतिपद्यत इत्यर्थः । तदेवं स्याद्वाददृष्टं [ऋजुसूत्राभ्युपगतं ] सप्तभेदं घटादिकमर्थ यथाविवक्षमेकेन केनापि भङ्गकेन विशेपिततरमसौ शब्दनयः प्रतिपद्यते नयत्वात् ऋजुसूत्राद् विशेषिततरवस्तुमाहित्वाच । स्याद्वादिनस्तु संपूर्णसप्तभङ्ग्यात्मकमपि प्रतिपद्यन्त इति ।-विशेषा• बृ० गा० २२३१-२
पृ० २४. पं० १२. 'नयवाक्यमपि'-तत्त्वार्थश्लोकवा० १. ३३. ९१-९५. स्या० र० ७. ५३. 20
पृ० २५. पं० १९. 'तत्र प्रकृतार्थ'
"पजायाऽणभिधेयं ठिअमण्णस्थे तयस्थनिरवेक्खं ।
जाइच्छियं च नामं जाव दव्वं च पाएण ॥" -विशेषा• गा• २५ "यत् कस्मिंश्चिद् भृतकदारकादौ इन्द्रायभिधानं क्रियते, तद् नाम भण्यते। कथंभूतं तत् :, इत्याह-पर्यायाणां शक्र-पुरन्दर-पाकशासन-शतमख-हरिप्रभृतीनां समानार्थवाचकानां ध्वनीनाम् 25 अनभिधेयम्-अवाच्यम् , नामवतः पिण्डस्य संबन्धी धर्मोऽयं नाम्न्युपचरितः। स हि नामवान् भृतकदारकादिपिण्डः किलैकेन सडेतितमात्रेणेन्द्रादिशब्देनैवाऽभिधीयते न तु शेषैः शक्र-पुरन्दरपाकशासनादिशब्दैः । अतो नामयुक्तपिण्डगतधर्मो नाम्न्युपचरितः पर्यायानभिधेयमिति ।
पुनरपि कथंभूतं तन्नाम ?, इत्याह-ठिअमण्णत्थेवि विवक्षिताद् भृतकदारकादिपिण्डादन्यश्वासावर्षश्वाऽन्यार्थो देवाधिपादिः, सद्भावतस्तत्र यत् स्थितम् , मृतकवारकादौ तु सहेत- 30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org