________________
जैनतर्क भाषायाः [ पृ० १६. पं० १६विरोधाभावात् । एवं वचेतनत्वेनोत्पत्तिमत्त्वं व्याप्तं भवेद्यदि चैतन्येन तस्य विरोधः स्यात् नान्यथा । न चैवमिति नैतौ प्रसङ्गतद्विपर्ययौ गमकौ भवतः । " स्या० २० पृ० ५५४-५.
पृ० १६. पं० १६. 'पक्षशुद्धयादिकमपि ' - " तत्र वक्ष्यमाणप्रतीतसाध्यधर्म विशेषणत्वादिपक्षदोष परिहारादिः पक्षशुद्धिः । अभिधास्यमानाऽसिद्धादिहेत्वाभासोद्धरणं हेतुशुद्धिः । प्रति5 पादयिष्यमाण साध्यविकलत्वादिदृष्टान्त दूषणपरिहरणं दृष्टान्तशुद्धिः । उपनयनिगमनयोस्तु शुद्धी प्रमादादन्यथाकृतयोः तयोर्वक्ष्यमाणतत्स्वरूपेण व्यवस्थापके वाक्ये विज्ञेये ।" - स्या० २० पृ० ५६५. पृ० १६. पं० २१. ' तथापि कार्याद्यनात्म' - स्या० र० पृ० ५९४. पं० २३.०
५९५. पं० ६.
पृ० १८. पं० ९. 'नन्वन्यतरासिद्धः - प्रमेयकमलमार्त्तण्डे [ पृ० १९१ ] स्याद्वादरत्नाकरे 10 [ ४० १०१८ ] च अम्यतरासिद्धाख्यहेत्वाभासस्य नास्तित्वाशङ्कायाः - " नन्वेवमपि अस्य असिद्धत्वं गौणमेव स्यादिति वेद् एवमेतत् ; प्रमाणतो हि सिद्धेरभावात् असिद्धोऽसौ न तु स्वरूपतः" इत्यादिना यत् समाधानं कृतं तदपि अत्र पूर्वपक्षतया उपन्यस्य समाधानान्तरं दीयते ग्रन्थकृता ।
15
पृ० १८. पं० २९. 'धर्म भूषणेन' - "अप्रयोजको हेतुरकिंचित्करः । स द्विविधः सिद्धसाधनो बाधितविषयश्च । ” न्यायी० पृ० ३५ ।
पृ० २०. पं० १. 'शतृशानशौ' – “ तौ सदिति शतृशानयोः सङ्केतितसच्छब्दवत् द्वन्द्ववृत्तिपदं तयोः सकृदभिधायकम् इत्यनेनापास्तम्, सदसत्वे इत्यादिपदस्य क्रमेण धर्मद्वय. प्रत्यायनसमर्थत्वात् ।” तत्त्वार्थंश्लोकवा० पृ० १४०.।
पृ० २१. पं० २०. 'जिनभद्र'- विशेषा० वृ० गा० ७५ विशेषा० गा० ७७, २२६२. । पृ० २३. पं० १६. तथा विशेषग्राहिणः ' " अर्ध्यते विशेष्यते इत्यर्पितो विशेषः 20 तद्वादी नयः अर्पितनयः समयप्रसिद्धो ज्ञेयः । तन्मतं विशेष एवास्ति न सामान्यम् | अनर्पितमविशेषितं सामान्यमुच्यते तद्वादी नयः अनर्पितनयः । सोऽपि समयप्रसिद्ध एव बोद्धव्यः । तन्मतं तु सामान्यमेवास्ति न विशेषः । " -विशेषा० बृ० गा० ३५८८.
पृ० २३. पं० १८. 'तथा लोकप्रसिद्धार्था' - विशेषा० गा० ३५८९ ।
पृ० २३. पं० २१. ‘अथवा एकनय' - " अथवा यत् किमप्येकैकस्यैव नयस्य मतं तद् 25 व्यवहारः प्रतिपद्यते नान्यत् । कुतः । यस्मात् सर्वथा सर्वैरपि प्रकारैर्विशिष्टं सर्वनयमतसमूहमयं वस्त्वसौ प्रतिपत्तुं न शक्नोति स्थूलदर्शित्वादिति । विनिश्चयस्तु निश्वयनयः यद् यथाभूतं परमार्थतो वस्तु तत् तथैव प्रतिपद्यते इति ।" विशेषा० बृ० गा० ३५९० ।
पृ० २३. पं० २४. 'तथा, ज्ञानमात्र' विशेषा ० ० गा० ३५९२ । नयोपदेश का०
१२९-१३८.
पृ० २३. पं० २५. 'तत्रर्जुसूत्रा' - विशेषा० गा० २६२१-१६३२ ।
30.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org