SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ पृ० १६. पं०१.] तात्पर्यसमहा वृत्तिः। स्वागमेनैव निश्चितत्वात् वादिकोटेश्च तेनैव आगमेन बाधितत्वात् संशयरूपपक्षतायाः अभावेन तत्र नानुमितिसम्भव इत्यर्थः । पृ० १५. पं० २४. ननु अनुमानोत्तरकालं तु प्रतिवादिना परीक्ष्य आगमः स्वीकरिष्यते अनुमानकाले पुनः परम्परायातेन अभिनिवेशमात्रेण तेन स्वीकृत इति तदाश्रयेण साधनमुपन्यस्यन् वादी कथमुपालम्भास्पदं भवेत् !, इत्याशहायामाह 'परीक्षाकाले तबाधात्' इति । तथा 5 च अनुमानावसरे वादिविरोधं सहमानस्य प्रतिवादिनः स्वागमप्रामाण्यं न निश्चितं नाम । एवं च यथा प्रतिवाद्यागमः वादिनोऽनिश्चितप्रामाण्यकस्तथा प्रतिवादिनोप्यनिश्चितप्रामाण्यक इति न तदाश्रयेण साधनोपन्यासः कामपि इष्टसिद्धिं पुष्णातीति भावः । ___ पृ० १५. पं० २७. 'प्रसङ्गविपर्यय'-"प्रसङ्गः खल्वत्र व्यापकविरुद्धोपलब्धिरूपः । अनेकव्यक्तिवर्तित्वस्य हि व्यापकमनेकत्वम् , ऐकान्तिकैकरूपस्यानेकव्यक्तिवर्तित्वविरोधात् । अने- 10 कत्रवृत्तेरनेकत्वं व्यापकं तद्विरुद्धं च सर्वथैक्यं सामान्ये त्वयाऽभ्युपगम्यते ततो नाऽनेकवृत्तित्वं स्यात् , विरोध्यैक्यसद्भावेन व्याप्येन व्यापकस्यानेकत्वस्य निवृत्त्या व्याप्यस्यानेकवृत्तित्वस्याऽवश्यं निवृत्तेः । न च तन्निवृत्तिरभ्युपगतेति लब्धावसरः प्रसङ्गविपर्ययाख्यो विरुद्धव्याप्तोपलब्धिरूपोऽत्र मौलो हेतुः । यथा यदनेकवृत्ति तदनेकम् अनेकवृत्ति च सामान्यमिति । एकत्वस्य हि विरुद्धमनेकत्वं तेन व्याप्तमनेकवृत्तित्वं तस्योपलब्धिरिह । मौलत्वं चास्यैतदपेक्षयैव प्रसङ्गस्योपन्यासात् । न 16 चायमुभयोरपि न सिद्धः । सामान्ये जैनयोगाभ्यां तदभ्युपगमात् । ततोऽयमेव मौलो हेतुरयमेव वस्तुनिश्चायकः ।"-स्या० र• पृ० ५५३-४. . __पृ० १५. पं० २७. 'अनेकवृत्तित्व'-अनेकवृत्तित्वस्य व्यापकं यदनेकत्वं तस्य या सर्वभैक्यस्वीकारे सति निवृत्तिः तयैव व्यापकनिवृत्स्या व्याप्यीभूतानेकवृत्तित्वनिवृत्तेः प्रसनः 'यदि सामान्यं सर्वथैकं स्यात् तदा अनेकवृत्ति न स्यात्' इत्यादिरूपो यः क्रियते स एव सामान्ये 20 ऽनेकत्वसाधके अनेकवृत्तित्वरूपे मौलहेतौ 'सामान्यमनेकवृत्ति भवतु मा भूदनेकम्' इत्येवंरूपायाः व्यभिचारशङ्कायाः निवर्तकत्वेन तर्कापरपर्यायः परिकरो अभिधीयते एतादृशस्य प्रसझाख्यपरिकरस्य व्यभिचारशकाविधूननद्वारा मौलहेतुगतव्याप्तिसिद्धिपर्यवसायिनः उपन्यासस्य सर्वसम्मततया न्याय्यत्वमेव इति भावः। पृ० १६.६० १. "नन्वेवं प्रसङ्गेऽजीक्रियमाणे बुद्धिरचेतना, उत्पत्तिमत्वादित्ययमपि साङ्ख्ये- 25 न ख्यापितः प्रसनहेतुर्मविष्यति । तथा हि यदि बुद्धिरुत्पत्तिमती मवद्भिरभ्युपगम्यते तदानीं तथ्यापकमचैतन्यमपि तस्याः स्यान चैवमतो नोत्पत्तिमत्यपीयम्" [स्या० र० पृ. ५५४.] इत्याशङ्ख्य समाधत्ते 'बुद्धिरवेतनेत्यादौ च' इत्यादिना । "प्रसङ्गविपर्ययहेतोर्मीलस्य चैतन्याख्यस्य साङ्ख्यानां बुद्धावपि प्रतिषिद्धत्वात् चैतन्यस्वीकारेऽपि नाऽनयोः प्रसङ्ग-तद्विपर्यययोर्गमकत्वं अनेन प्रसेनेनात्र प्रसङ्गविपर्ययहेतोयाप्तिसिद्धि- 30 मिवन्धनस्य विरुद्धधर्माध्यासस्य विपक्षे बाधकप्रमाणस्थानुपस्थापनात् । चैतन्योत्पचिमत्त्वयो- . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001070
Book TitleJain Tarka Bhasha
Original Sutra AuthorYashovijay Upadhyay
AuthorSukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
PublisherSaraswati Pustak Bhandar Ahmedabad
Publication Year1993
Total Pages110
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Nyay, P000, & P055
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy