SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ जैनतर्कभाषायाः [पृ० १५.५०८पृ० १५.६० ८. 'नित्यत्वादो'-कूटस्थनित्यत्वस्य जैनमतेऽप्रसिद्धत्वेऽपि अनित्यत्वसमानाधिकरणनित्यत्वरूपस्य कथञ्चिन्नित्यत्वस्य प्रसिद्धतया तादृशे नित्यत्वे अनित्यत्वसामानाधिकरण्याभावाऽवच्छेदेन उक्ताभावः सुखेन साधयितुं शक्य इत्यर्थः । पृ० १५. पं० १६. 'समर्थन'-"त्रिविधमेव हि लिङ्गमप्रत्यक्षस्य सिद्धरणम्-स्वभावः कार्य5 मनुपलम्भश्च । तस्य समर्थनं साध्येन व्याति प्रसाध्य धर्मिणि भावसाधनम् । यथा यत् सत् कृतकं वा तत् सर्वमनित्यं यथा घटादिः सन्कृतको वा शब्द इति । अत्रापि न कश्चित्क्रमनियमः इष्टार्थसिद्धरुभयत्राविशेषात् । धर्मिणि प्राक् सत्त्वं प्रसाध्य पश्चादपि व्याप्तिः प्रसाध्यत एव यथा सन् शब्दः कृतको वा, यश्चैवं स सर्वोऽनित्यः यथा घटादिरिति ।"-वादन्यायं पृ० ३-६. पृ० १५. पं० २१. यद्यपि वादिप्रतिवाद्युभयसम्प्रतिपन्नमेव साधनं वादभूमिकायामुपयुज्यते 10 इति सर्वसम्मता वादमर्यादा, तथापि कश्चित् साङ्ख्यप्रख्यः स्वसिद्धान्तं स्थापयितुं स्वानमिमतमपि किश्चित् साधनं प्रतिवादीष्टत्वमात्रेण वादकाल एव प्रयोक्तुमिच्छन्नेव तां सर्वसम्मतवादमर्यादामति. क्रम्य स्वाभिप्रायानुकूलमेव परार्थानुमानीयं यत् लक्षणान्तरं प्रणीतवान् तदेवात्र ग्रन्थकारः स्याद्वादरत्नाकर[पृ• ५५१] दिशा निरसितु निर्दिशति 'आगमात् परेणैव' इत्यादिना । 'आगमात्' आगमानुसारेण, 'परेणैव'-प्रतिवादिनैव, 'ज्ञातस्य-सम्मतस्य, 'वचनम्'-साधनतया वादकाले 15 वादिना प्रयोग इत्यर्थः । तथा च वादिना प्रतिवादिनि स्वसिद्धान्तप्रत्यायनं साधनसिया सम्पा दनीयम् । सा च साध्यसिद्धिर्यदि केवलप्रतिवादिन्यपि स्यात् तावतैव वादी कृतार्थो भवेत् इति किम् उभयसिद्धसाधनगवेषणप्रयासेन ?, इति परार्थानुमानीयलक्षणान्तरकारिणः पूर्वपक्षिणः आशयः। पृ० १५. पं० २३. प्रामिर्दिष्टं लक्षणान्तरं निराकरोति 'तदेतदपेशलम्' इत्यादिना । अत्रायं भावः-वादिप्रतिवाद्युभयसिद्धस्यैव साधनस्य परार्थानुमानोपयोगितया न वादिपतिवाघेकतर20 सिद्धसाधनेन अनुमानप्रवृत्तिरुचिता । तथा च साधनसिद्धये समाश्रीयमाणः आगमोऽपि वादि. प्रतिवाद्युभयसम्प्रतिपन्नप्रामाण्यक एव परार्थानुमानोपजीव्यः, न तु तदन्यतरमात्रसम्मतप्रामाण्यकः । एवं च न प्रतिवादिमात्राभ्युपगतप्रामाण्यकेन आगमेन साधनमुपन्यस्य अनुमानप्रवर्तनं वादिनो न्याय्यम्। वादी हि प्रतिवाद्यागमं तेन परीक्ष्य स्वीकृतं अपरीक्ष्य वा स्वीकृतं मत्वा तमागममाश्रय ननुमानावसरे साधनमुपन्यस्येत् । न प्रथमः पक्षः, वादिनापि तदागमप्रामाण्यस्य स्वीकरणीयत्वा25 पत्तेः । न हि परीक्षितं केनापि प्रामाणिकेन उपेक्षितुं शक्यम् । तथा च प्रतिवाद्यागमानुसारेणैव साधनवत् साध्यकोटेरपि वादिना अवश्याङ्गीकार्यत्वेन तद्विरुद्धसाधनाय अनुमानोपन्यासस्य वैयर्थ्यात् आगमबाधितत्वाच्च । न द्वितीयः, अपरीक्ष्याभ्युपगतस्य प्रामाण्यस्य प्रतिवादिनोऽपि शिथिलमूलतया सन्दिग्धतया च सन्दिग्धप्रामाण्यकतादृशप्रतिवाद्यागमानुसारेण असन्दिग्धसाधनो पन्यासस्य वादिना कर्तुमशक्यत्वात् । 30 पृ० १५. पं० २३. 'अन्यथा'-विप्रतिपन्नप्रामाण्यकागमाश्रयेण साधनोपन्यासे इत्यर्थः । __ 'तत एवं'-प्रतिवादिमात्रसम्मतादेव, तदीयादागमात् साध्यसिद्धिप्रसङ्गात्-प्रतिवादिनि स्वकोटेः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001070
Book TitleJain Tarka Bhasha
Original Sutra AuthorYashovijay Upadhyay
AuthorSukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
PublisherSaraswati Pustak Bhandar Ahmedabad
Publication Year1993
Total Pages110
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Nyay, P000, & P055
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy