________________
पृ० १५. पं०७.] तात्पर्यसमहा वृत्तिः। बोधोपपादनाय अनुमित्युपपादनाय च ग्रन्थकारस्स्वामिप्रेता प्रक्रियामादर्शयति 'इदं त्ववधेयम्' इत्यादिना। ____ अयं भावः-विकल्पसिद्धधर्मिस्थलीये शाब्दबोधे अनुमितौ वा विकल्पसिद्धस्य धर्मिणो भाने त्रय एव पक्षाः सम्भवन्ति, तथाहि-तस्य अखण्डस्यैव वा मानम् , विशिष्टरूपतया वा, खण्डशः प्रसिद्धतया वा । तत्र स्वसिद्धान्तविरोधितया प्रथमपक्षो नाङ्गीकर्तुं शक्यते । जैनसिद्धान्ते 5 हि सर्वत्रापि ज्ञाने सत एव मानाभ्युपगमेन असतो भानस्य सर्वथा अनभिमतत्वात् । विकल्पसिद्धधर्मिणः प्रमाणासिद्धत्वेन अखण्डस्यासत्त्वात् अखण्ड-तद्भानाभ्युपगमे असद्भानस्यावर्जनीयत्वमेव । द्वितीयपक्षस्तु कथञ्चिदभ्युपगमार्हः । यत्र स्थले 'शशशृङ्गं नास्ति' इत्यादौ 'शृङ्ग शशीयं न वा' इत्यादिर्न संशयः, न वा 'शृङ्गं शशीयं न' इति बाधनिश्चयस्तत्र अभावाशे शशीयत्वविशेषणविशिष्टस्य शृङ्गस्य भाने बाधकामावात् । यत्र च स्थले तादृशः विशेषणसंशयः तादृशो 10 विशेषणबाधनिश्चयो वा तत्र विशिष्टभानासम्भवेऽपि 'शृङ्गे शशीयत्वज्ञानं जायताम्' इतीच्छाजनितं बाधनिश्चयकालीनमाहार्यज्ञानं सम्भवत्येव । तथा च 'शशशृङ्गं नास्ति' इत्यादिशाब्दबोधे 'एतत् स्थानं शशशृङ्गाभाववत्' इत्याद्यनुमितौ वा अभावांशे प्रतियोगितया भासमाने शृङ्गांशे शशीयत्वविशेषणस्य आहार्यभानोपपत्त्या प्रतिवादिपरिकल्पितविपरीतारोपनिराकरणाय तादृशस्य शब्दस्य तादृश्या वा अनुमितेः सुसम्भवत्वमेव । इत्थं च द्वितीयपक्षस्य उपपाद्यत्वेऽपि तत्र 15 अनुमितेराहार्यात्मकत्वं एकदेशीयाभिमतमेव कल्पनीयमिति तत्पक्षपरित्यागेन सर्वथा निर्दोषस्तृतीयपक्ष एवं आश्रयितुमुचित इति मत्वा ग्रन्थकारेण 'वस्तुतः' [पृ० १५. पं० ४.] इत्यादिना अन्ते खण्डशः प्रसिद्धपदार्थभानगोचरस्तृतीयपक्ष एव समाश्रितः । तथा च 'शशशृङ्गं नास्ति' इत्यादौ अभावांशे नाखण्डस्यासतः शशशृङ्गस्य भानम्, न वा शशीयत्ववैशिष्ट्यस्य आहार्यभानं किन्तु प्रसिद्ध एव शृङ्गांशे प्रसिद्धस्यैव शशीयत्वस्य अभावो भासते। तथा च 'एका- 20 न्तनित्यं अर्थक्रियासमर्थ न भवति, क्रमयोगपद्याभावात्' इत्यादिरूपायां जैनस्थापनायां एकान्तनित्यस्य जैनमते सर्वथाऽसम्भवेऽपि तादृशस्थले अनित्यत्वासमानाधिकरणरूपनित्यत्वस्य खण्डशः प्रसिद्धतया खण्डशः प्रसिद्धतादृशपक्षविषयायाः अर्थक्रियासामर्थ्याभावसाध्यिकायाः क्रमयोगपद्यनिरूपकत्वाभावहेतुकायाः 'एकान्तनित्यत्वं अर्थक्रियासामर्थ्यानियामकं क्रमयोगपद्यनिरूपकस्वाभावात्' इत्याकारिकायाः अनुमितेर्निर्बाधसम्भवेन न तादृशी जैनस्थापना विरुध्यते । 25
पृ० १४. पं० २९. 'शब्दादे'-शब्दात् , 'आदि'पदेन व्याप्तिज्ञानादेः परिग्रहात् व्याप्तिज्ञानादेस्सकाशादित्यर्थः ।
पृ० १५. पं० १. 'विकल्पात्मिकैव'-अनुमितेः शब्दज्ञानानुपातित्वानियमेन शब्दज्ञानानुपातिविकल्परूपत्वाभावेऽपि वस्तुशून्यविकल्पसदृशतया विकल्यात्मिकेत्युक्तम् । तथा च विकल्पाकारवृत्तिसहसी इत्यर्थः ।
30 पृ० १५. पं०७. 'विशेषावमर्शदशायाम्'-अर्थक्रियासामर्थ्याभावरूपसाध्यव्याप्यीभूतक्रमयोगपद्याभावरूपविशेषधर्मनिर्णयरूपपरामर्शदशायामित्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org