________________
५६
जैनतर्क भाषायाः
[पृ० ११. पं० २६जैनेनापि स्वीक्रियेत तर्हि धर्मभूषणेन न्यायदीपिकायां अज्ञाननिवर्तकतया समथितं तर्कस्य प्रामाण्यं कथं सङ्गमनीयमित्याशङ्कामपाकर्तुमाह 'इत्थं च' इति । तथा च अज्ञानपदस्य तत्र मिथ्याज्ञानपरत्वेन मिथ्याज्ञाननिवर्तकत्वं तर्कस्य तत्र धर्म भूषणाभिप्रेतत्वेन बोद्धव्यम् इति न कश्चिद्विरोधः ।
पृ० ११. पं० २६. ननु यदि व्याप्तिविषयक संशयात्मक मिथ्याज्ञाननिवर्त्तकतया तर्कस्य 5 प्रामाण्यं समर्थ्यते तर्हि प्रमाणसामान्यफलतया ज्ञानाभावरूपाऽज्ञाननिवृति: जैनाभिप्रेता तर्क - प्रमाणफलत्वेन कथं निर्वहेत् इत्याशङ्कायामाह - 'ज्ञानाभावनिवृत्तिः' इत्यादि । तथा च जैनमते ज्ञानमात्रस्य स्वप्रकाशतया तर्कस्यापि स्वप्रकाशत्वेन स्वव्यवसितिपर्यवसायित्वम् । स्वव्यवसितेश्व विषयव्यवसितिगर्भिततया बाह्यविषयज्ञातताव्यवहारप्रयोजकत्वेन विषयाज्ञान निवृत्तिरूपत्वमिति वस्तुतः स्वव्यवसितेरेव ज्ञानाभावनिवृत्तिरूपतया न तर्कस्यापि अज्ञाननिवृत्तिरूपसामान्य फलानुपपत्तिः ।
10
पृ० १२. पं० ४. अनुमितिनिरूपितकारणतायां पक्षद्वयं वर्तते हेतुग्रहण संबन्धस्मरणयोर्द्धयोरेव समुदितयोः कारणत्वमिति एकः पक्षः, नोक्तयोर्द्वयोः कारणत्वं किन्तु तद्द्वयजन्यस्य एकस्यैव लिङ्गपरामर्शस्य अनुमिति कारणत्वमित्यपरः पक्षः । अत्र ग्रन्थकृता प्रथमं पक्षमाश्रित्य - क्तम् 'समुदितयोः' इति ।
पृ० १२. पं० २१. अन्तर्व्याप्तिरेव अनुमितिप्रयोजिका । अन्तर्व्याप्तौ चावश्यमेव पक्ष15 स्यान्तर्भावः । व्याप्तिज्ञानीया धर्मिविषयतैव अनुमितिधर्मिविषयतायां तन्त्रमिति हेतुलक्षणे पक्षधर्मत्वाऽप्रवेशेऽपि अन्तर्व्याप्तिज्ञानबलादेव तज्जन्यानुमितौ पक्षस्यैव धर्मितया भानं न पुनरन्यथानुपपत्त्यवच्छेदकतया हेतुग्रहणाधिकरणतया वा तस्य भानमित्य भिप्रायेण प्रमाणनयतत्त्वाला - कीयं अन्तर्व्याप्तिबहिर्व्याप्तिलक्षणपरं सूत्रं अवलम्ब्य कस्यचिदेकदेशिनो मतमुपन्यस्यति - 'यत्त' इत्यादिना ।
20
पृ० १२. पं० २८. न पक्षान्तर्भावानन्तर्भीवकृतोऽन्तर्व्याप्तिबहिर्व्याप्त्योर्भेदः किन्तु स्वरूपत एव तयोर्भेदः, अन्तर्व्याप्तेः साध्यशून्यावृत्तित्वरूपत्वात्, बहिर्व्याप्तेश्च साध्याधिकरणवृत्तित्वरूपत्वात् । तथा च अनुमितिप्रयोजकान्तर्व्याप्तौ पक्षस्याघटकतया न तद्भानबलाद् अनुमितिविषयता तत्र पक्षे निर्वाहयितुं शक्येति अनुमितौ तद्भाननिर्वाहाय अस्मदुक्तैव क्वचिदन्यथानुपपत्त्यवच्छेदकतया इत्यादिरीतिरनुसरणीया । यदि च अन्तर्व्याप्तौ नियमतः पक्षभानं स्यात् 25 तदा अन्तर्व्याप्तिग्रह एव पक्षसाध्यसंसर्गस्य भासितत्वात् किं पृथगनुमित्या ?, इत्याशयेन पूर्वोक्तं एकदेशिमतं निराकरोति 'तन' इत्यादिना ।
पृ० १४ पं० २७. 'ननु विकल्पसिद्धो धर्मी नास्ति' इत्यादिवचनस्य उपपत्त्यसंभवप्रतिपादनेन विकल्पसिद्धधर्म्यनङ्गीकारवतो नैयायिकान्प्रति यत् मौनापतिरूपं दूषणं दत्तं तत् जैनमतेऽपि समानम् ; तत्रापि हि ' असतो नत्थि निसेहो' इति भाष्यानुरोधेन असत्ख्यात्यनभ्युपगमात् अभावांशे 30 असतः प्रतियोगिनो विशेषणतया भानाऽसंभवात् 'शशशृङ्गं नास्ति' इत्यादितः विशिष्टविषयकशाब्दबोधानुपपत्त्या तादृशवचनव्यवहारस्य असम्भवात् इत्याशङ्कां निराकर्त्तु तादृशस्थले शाब्द
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org