SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ पृ० ११. पं० २५.] तात्पर्य सङ्ग्रहा वृत्तिः । इत्यादिना प्रामाण्यं समर्थयन्ते । समर्थयन्ते च ते पुनः दृश्यप्राप्ययोरैक्याध्यवसायेन अविसंवादबलात् प्रत्यक्षस्य इव अनुमितेरपि प्राप्यानुमेययोरैक्याध्यवसायरूपाविसंवादबलादेव प्रामाण्यम् । एतदेव च तस्याः व्यवहारतः प्रामाण्यं गीयते । तथा च यथा बौद्धमते अनुमानस्य प्रामाण्यं व्यवहारतो न विरुद्धं तथा अस्मन्मते तर्कप्रामाण्यमपि न विरोधास्पदमिति भावः । पृ० ११. पं० ११. अवस्तु' - अनुमानस्य वस्तुभूतस्वलक्षणविषयानवगाहित्वेऽपि इत्यर्थः । 5 पृ० ११. पं० १२. 'परम्परया' - अनुमीयमानविषयव्याप्तस्वलक्षणात्मकलिङ्गजन्यत्वात् इत्यर्थः । पृ० ११. पं० २०. तर्कस्य न स्वतः प्रामाण्यं किन्तु प्रमाणसहकारितया प्रमाणानुकूलतया वा प्रमाणानुग्राहकत्वमेव इति नैयायिकमतमुपन्यस्यति 'यत्तु' इत्यादिना । ५५ पृ० ११. पं० २०. ' आहार्य्यप्रसञ्जनम्' - बाधनिश्चयकालीनेच्छाजन्यं प्रत्यक्षं ज्ञानमा- 10 हार्यज्ञानम् । पर्वते धूमं स्वीकृत्य वह्निमाशङ्कमानं प्रति यत् 'यदि वह्निर्न स्यात् तर्हि अत्र धूमोऽपि न स्यात्' इत्यनिष्टापादनम्, तत् व्याप्यस्य आहार्यारोपेण व्यापकस्य आहायप्रसञ्जनम्, तत्र वयभावस्य व्याप्यत्वात् धूमाभावस्य च व्यापकत्वात् । धूमाभावाभावरूपधूमवत्तया निर्णीते पर्वते वयभावरूपव्याप्यारोपेण धूमाभावरूपव्यापकापादनस्य आहार्यज्ञानरूपत्वं सुस्पष्टमेव । पृ० ११. पं० २०. 'विशेषदर्शनवद्'' - यथा स्थाणुर्वा पुरुषो वा इत्यादिसंशयदशायां 15 एकतरकोटिव्याप्यवत्ता रूपविशेषदर्शनम् एकतर कोटिविषयके निर्णये जननीये इन्द्रियं सहकरोति, यथा वा तत् अपरकोटिनिवारकमात्रं तथा तर्कोऽपि प्रमाणं सहकरिष्यति विरोधिशङ्कामात्रं वा निवर्त्य प्रमाणानुकूलो भविष्यति इत्यर्थः । पृ० ११. पं० २१. ' विरोधिशङ्का' - तर्कस्य प्रमाणानुग्राहकत्वं द्वेधा सम्भवति विरोधिशङ्काकालीनप्रमाणकार्यकारित्वरूप सहकारित्वेन प्रमाणकार्यप्रतिबन्धकविरोधिशङ्कापसारण - 20 मात्रेण वा । तत्र प्रथमपक्षमपेक्ष्य द्वितीयपक्षानुसरणे लाघवात् उक्तम् ' विरोधिशङ्कानिवर्त्तकत्वेन' इत्यादि । सहकारित्वं हि एकधर्मावच्छिन्नकार्यतानिरूपितकारणतावत्त्वम् यथा-दण्डस्य कुम्भकारसहकारित्वम्, तदसमवधानप्रयुक्तफलोपधायकत्वाभाववत् तत्कत्वं वा यथा - उत्तेजकमण्यादेः वहिसहकारित्वम् यथा वा अदृष्टस्य कुम्भकारादिसहकारित्वम् । द्विविधस्यापि प्रमाणसहकारित्वस्य तर्फे कल्पनमपेक्ष्य विरोधिशङ्कानिवर्तकत्वमात्र कल्पने लाघवात् । Jain Education International पृ० ११. पं० २३. 'क्वचिदेतत्' - 'यत्र व्याप्तिग्रहानन्तरं 'पक्षे हेतुरस्तु साध्यं मास्तु' इति व्यभिचारशङ्का समुल्लसेत् तत्र 'यदि पर्वते वह्निर्न स्यात् तदा धूमोऽपि न स्यात्' इति व्याप्यारोपाहितस्य व्यापकारोपस्य नैयायिकाभिमतस्य तर्कस्य धूमाभावाभाववत्तया वयभावाभावव स्वरूपविपर्ययसाधनपर्यवसायित्वेन आहार्यशङ्काविघटकतया व्याप्तिनिर्णय एव उपयोगः । यत्र पुनर्व्याप्तिविचारो न प्रस्तुतः न वा तादृशी आहार्यशङ्का तत्र विचारानङ्गत्वेपि 30 स्वातन्त्र्येणैव शकामात्रविघटकतया तादृशस्य तर्कस्य उपयोगित्वम् इति भावः । पृ० ११. पं० २५. नैयायिकानुरोधेन यदि शङ्कामात्र विघटकतया तर्कस्य उपयोगित्वं For Private & Personal Use Only 25 www.jainelibrary.org
SR No.001070
Book TitleJain Tarka Bhasha
Original Sutra AuthorYashovijay Upadhyay
AuthorSukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
PublisherSaraswati Pustak Bhandar Ahmedabad
Publication Year1993
Total Pages110
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Nyay, P000, & P055
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy