________________
जैनतर्कभाषायाः
[पृ० १०.५० २९पृ० १०. पं० २९. ननु मा भूत् अव्यभिचारलक्षणा व्याप्तिरयोग्यत्वात् प्रत्यक्षस्य विषयः किन्तु सामानाधिकरण्यरूपायाः व्याप्तेस्तु योग्यत्वात् प्रत्यक्षविषयत्वं सुशकमेव । सामानाधिकरण्यं व्यक्तिविश्रान्ततया ततद्वयक्तियोग्यत्वे प्रत्यक्षयोग्यमेव इति तत्तद्वयक्तिहे तत्सामानाधिकरण्यस्यापि सुग्रहत्वम् । सकलसाध्यसाधनोपसंहारेण सामानाधिकरण्यज्ञानस्य लौकिकसनि5 कर्षजन्यत्वासम्भवेऽपि सामान्यलक्षणाऽलौकिकसन्निकर्षद्वारा सुसम्भवत्वात ताशव्याप्तिज्ञानार्थ न प्रमाणांन्तरकल्पनमुचितमित्याशयेन नैयायिकः शहते 'अर्थ' इत्यादिना ।
पृ० ११. पं० २. 'प्रमाणाभावात्'-न्यायनयेऽपि सामान्यलक्षणप्रत्यासत्तिस्वीकारे नैकमत्यम् । तस्याः चिन्तामणिकृता सामान्यलक्षणानन्थे समर्थितायाः दीधितिकृता तत्रैव
निष्प्रयोजनत्वोपपादनेन निरस्तत्वात् । 10 पृ० ११. पं० २. 'ऊहं विना-ज्ञायमानसामान्यं सामान्यज्ञानं वा सामान्यलक्षणा
प्रत्यासत्तिः । तथा च सामान्यमपि सकलव्यक्त्युपस्थापकं तदैव स्यात् यदा व्यकिसाकल्यं विना अनुपपद्यमानतया तन् ज्ञायेत । तथा च सकलव्यक्त्युपस्थितये सामान्ये व्यक्तिसाकल्यान्यथानुपपद्यमानताज्ञानमावश्यकम् । सामान्यनिष्ठा तादृश्यनुपपद्यमानता च व्यक्तिसाकल्य
व्याप्तिरूपा । सा च 'यदि सामान्य व्यक्तिसाकल्यव्यभिचारि स्यात् तदा सामान्यमेव न 15 स्यात्' इत्यायूहं विना दुर्ज्ञानेति सकलयक्त्युपस्थापनोपयोगिसामान्यज्ञानार्थम् ऊहस्य सामान्यलक्षणापक्षेऽपि अवश्यस्वीकार्यत्वात् तेनैव सर्वत्र व्याप्तिज्ञानकल्पनं समुचितमिति भावः ।
पृ० ११. पं० ८. 'नानवस्था'-निरस्तशकव्यासिज्ञानजननाय अन्तरोदीयमानां व्यभिचारशहां निरसितुं अनिष्टापादनं आवश्यकम् । तच न व्यासिज्ञानं विना सम्भवति इति
व्याप्तिज्ञानेऽपि व्याप्तिज्ञानान्तरापेक्षा, तत्रापि तदन्तरापेक्षा एवं क्रमेण एकस्मिन्नेव व्याप्तिज्ञाने 20 कर्तव्येऽनन्तानन्तव्याप्तिज्ञानानामपेक्षणीयतया अनवस्था समापतति इति तन्निरासः योग्यताबलात् ग्रन्थकृता दर्शितः।
पृ० ११. पं० ९. निर्विकल्पस्यैव मुख्यं प्रामाण्यं स्वीकुर्वतां बौद्धानां मते विचारात्मकस्य तर्कस्य विकल्परूपत्वेन प्रामाण्यं ने सम्भवति इति तेषां मतमाशइते 'प्रत्यक्ष
पृष्ठभाविविकल्प' इत्यादिना । 25 पृ० ११. पं० ९. 'तत्र' इत्यादिना विकल्प्य दूषयति। तथाहि-ननु किं तर्कस्य विकल्प
रूपतया अप्रामाण्यं प्रत्यक्षपृष्ठमावित्वेन तद्गृहीतमात्रग्राहित्वकृतम् , आहोस्वित् तत्पृष्ठभावित्वेऽपि तदगृहीतसामान्यग्राहित्वकृतम् ? । तत्र नाद्यः, प्रत्यक्षगृहीतस्वलक्षणमात्रग्राहित्वेन विकल्पस्य अप्रामाण्येऽपि तस्य सकलोपसंहारेण व्याप्त्यनवगाहितया अस्मदभ्युपगततर्कपामा
ण्यक्षतेरभावात् । न द्वितीयः, प्रत्यक्षागृहीतसामान्यविषयकत्वेऽपि प्रत्यक्षपृष्ठभाविनो विकल्पस्य 80 अनुमानवत् प्रामाण्ये बाधाभावात् । बौद्धा अपि अवस्तुभूतसामान्यमासकत्वेन अनुमितेः
प्रत्यक्षवत् साक्षात्स्वलक्षणात्मकग्रासजन्यत्वाभावेऽपि तस्याः अतद्वयावृत्तिरूपसामान्यात्मना ज्ञायमानविशेषप्रतिबद्धस्वलक्षणात्मकलिङ्गजन्यतया 'प्रतिबद्धस्वभावस्य तद्धतुत्वे समं द्वयम्'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org