________________
पृ० १०. पं० २५.]
तात्पर्यसमहा वृत्तिः ।
५३
पृ० ९. पं० २१. प्रत्यभिज्ञानस्य इन्द्रियसम्बन्धपश्चाद्भावित्वेऽपि न साक्षात् तत्सम्बन्धान्वयव्यतिरेकानुविधानं किन्तु साक्षात् प्रत्यक्षस्मरणान्वयव्यतिरेकानुविधानमेव इति प्रत्यभिज्ञानपौ प्रत्यक्षस्मरणाभ्यां इन्द्रियसंसर्गस्य व्यवहितत्वात् साक्षात् तज्जन्यत्वाभावेन प्रत्यभिज्ञानस्य न प्रत्यक्षत्वं कल्पनार्हमित्यभिप्रायेण दूषयति 'तन' इत्यादिना ।
पृ० ९. पं० २६. 'अनुमानस्यापि ' - अयं भावः - यदि स्मृतिमपेक्ष्य चक्षुरादिबहिरि - 5 न्द्रियं स एवायं घटः' इत्यादिरूपं प्रत्यक्षजातीयमेव प्रत्यभिज्ञानं जनयेत् तदा तुल्ययुक्त्या व्याप्तिस्मृत्यादिसापेक्षमेव अन्तरिन्द्रियं पक्षे साध्यवसाज्ञानं प्रत्यक्षजातीयमेव जनयेत्, तथा च प्रत्यभिज्ञानवत् अनुमितेरपि प्रत्यक्षजातीयता प्रसञ्जनेन सिद्धान्तसम्मतस्य अनुमानप्रमाणपार्थक्यस्य विच्छेदापत्तिः ।
पृ० ९. पं० २७. स एवायं घटः' इत्यादौ विशेष्यीभूतघटांशे चक्षुरादीन्द्रियसन्नि - 10 कर्षसत्त्वात् तत्तारूपविशेषणविषयकस्मृतिरूपवानबलेन प्रत्यभिज्ञानं विशिष्टविषयकमेव प्रत्यक्षजातीयं भवितुमर्हतीति नैयायिकविशेषमतमाशङ्कय निराकरोति 'एतेन' इत्यादिना ।
पृ० ९. पं० २९. 'एतत्सदृश' - ' स एवायं घटः' इत्यादौ विशेष्यांशे इन्द्रियसन्निकर्षसत्त्वेऽपि यत्र न पुरोवर्त्तिनो विशेष्यत्वं यथा 'एतत् सदृश:' इत्यादिस्थले किन्तु तस्य विशेषणत्वं तत्र विशेप्येन्द्रियसन्निकर्षाभावेन विशेषणज्ञान सह कृतविशेष्येन्द्रियसन्निकर्षजन्यत्व- 15 स्यापि दुष्करूपत्वात् न विशिष्टप्रत्यक्ष जातीयत्वं समुचितमिति भावः ।
पृ० १०. पं० १. ननु क्लृप्तप्रत्यक्षप्रमाणान्तर्गतत्वेन प्रत्यभिज्ञायाः प्रामाण्यमभ्युपगच्छन्तोऽपि मीमांसक - नैयायिकादयः स्थैर्यरूपमेकत्वमेव तस्याः विषयत्वेन मन्यन्ते न पुनर्जेना इव सादृश्य-वैसदृश्य-दूरत्व-समीपत्व- ह्रस्वत्व-दीर्घत्वादिकमपि । ते हि सादृश्यादिप्रमेयप्रतिपत्त्यर्थमुपमानादिप्रमाणान्तरमेव प्रत्यभिज्ञाविलक्षणं कल्पयन्ति इति एकत्ववत् सादृश्यवै स दृश्यादेरपि 20 प्रत्यभिज्ञाविषयत्वसमर्थनेन तेषां मतमपासितुं प्रन्थकारः पूर्व भाट्टपक्षं उपन्यस्यति 'नजु' इत्यादिना ।
पृ० १०. पं० ११. नैयायिकास्तु मीमांसकवत् नोपमानस्य प्रमेयं सादृश्यादिकं मन्यन्ते किन्तु सञ्ज्ञासज्ञिसम्बन्धरूपमेव प्रमेयं तद्विषयत्वेन कल्पयन्ति इति सञ्ज्ञासज्ञिसंबन्धस्यापि प्रत्यभिज्ञाविषयत्वसमर्थनेन नैयायिकाभ्युपगतं उपमानस्य प्रमाणान्तरत्वं निरसितुं तन्मतमुपम्यस्यति 'एतेन' इत्यादिना ।
पृ० १०. पं० २०. 'आसाम् ' - सूक्ष्मत्व - स्थूलत्व- दूरत्व- समीपत्वादि गोचराणां सङ्कलनात्मिकानां सर्वासां प्रतीतीनामित्यर्थः ।
पृ० १०. पं० २५. 'स्वरूपप्रयुक्ता' - स्वाभाविकाऽव्यभिचाररूपा व्याप्तिरित्यर्थः । तच्छून्यावृत्तित्वरूपोऽव्यभिचारो द्विविधः अनौपाधिकः औपाधिकश्च । धूमे वह्निशून्यावृत्तित्वस्य उपाध्यकूतत्वेन अनौपाधिकत्वात् स्वाभाविकत्वम् । वह्नौ तु धूमशून्यावृत्तित्वस्य आर्द्रेन्धन - 30 संयोगरूपोपाधिकृतत्वेन औपाधिकत्वात् न स्वाभाविकत्वम् इति बोध्यम् । स्वाभाविकाव्यभिचारलक्षणैव व्याप्तिरनुमित्यौपयिकीत्यभिप्रायेण उक्तम् ' स्वरूपप्रयुक्ताव्यभिचारलक्षणायाम्' इत्यादि ।
Jain Education International
25
For Private & Personal Use Only
www.jainelibrary.org