________________
५२ जैनतर्कभाषायाः
[पृ० ९. पं० २वर्तित्वस्य च स्वातन्त्र्येणैव भानात् न स्मृतेरयथार्थत्वम् इति भावः । अत्रेदमाकूतम्'चैत्रो धनवान् वर्तते' इत्यादिस्थलीयशाब्दबोधे चैत्राधिकरणकालवर्तित्वस्य धनांशे, 'भुञ्जानाश्शेरते' इत्यादिस्थलीयशाब्दबोधे तु भोजनाधिकरणकालवर्तित्वस्य शयनांशे भासमानतया क्वचित् विधेयांशे उद्देश्यसमानकालीनत्वस्य कचिच्च उद्देश्यतावच्छेदकसमानकालीनत्वस्य 5 भानमिति सार्वत्रिको नियमः चिन्तामणिकारस्याभिप्रेतः । परन्तु 'ब्रामणः श्रमणः' इत्यादि
स्थलीयशाब्दबोधे ब्रामणत्वांशे श्रमणाधिकरणवर्तमानकालवर्तित्वस्य श्रमणत्वाधिकरणतत्कालवर्तित्वस्य वा भानाभावात् नोक्तनियमस्य सार्वत्रिकत्वं किन्तु प्रामाणिकप्रतीतिरलात् यत्र यत्र विधेयांशे उद्देश्यकालीनत्वं उद्देश्यतावच्छेदककालीनत्वं वा भासते तत्र तत्रैव उक्तनियमस्य
प्रसरो न तु सर्वत्र इति ग्रन्थकाराभिप्रायः । 10 पृ० ९. पं० २. अन्यदीयप्रमात्वनिरपेक्षत्वे सत्येव प्रमात्वस्य प्रमाव्यवहारप्रयोजकतया
स्मृतेर्यथार्थत्वेऽपि अनुभवप्रमात्वाधीनप्रमात्वशालितया न प्रमात्वमिति उदयनाचार्यादिभिस्समर्थितं (न्यायकु. ४.१) स्मृत्यप्रमात्वं आशकते 'अनुभवप्रमात्वपारतन्त्र्यात्' इत्यादिना । ___ पृ० ९. पं० ३. प्रतिबन्द्या अनुमितेरप्रमात्वापादनेन निराकरोति 'अनुमितेरपि' इत्यादिना ।
पृ० ९. पं० ७. अनुमित्याः स्मृतेलक्षण्यमुपपादयितुमाह-'नैयत्येन' इति । तथा च 15 अनुमितिकारणीभूते व्याप्तिज्ञाने हेतुज्ञाने वा यः पक्षतावच्छेदकरूपो वा तद्व्यापकसाध्यप्रति
योगिकसंसर्गरूपो वा अर्थः अवश्यंतया न भासते सोऽपि अनुमितेविषय इति तस्याः स्वविषयपरिच्छेदे स्वातन्त्र्यमिति पूर्वपक्षार्थः ।
पृ० ९. पं० ८. तुरुययुक्त्या समाधत्ते–'तर्हि' इत्यादिना । तथा च पूर्व अनुभवेन विषयीकृतस्यापि अर्थस्य तत्तया अनवगाहनात् स्मृत्या च अनुभूतस्याऽपि तस्यैव अर्थस्य तत्त्या 20 अवगाहनात् तस्या अपि अनुमितिवत् विषयपरिच्छेदे स्वातन्त्र्यमबाधितमेव इति भावः ।
_पृ० ९. पं० १८. प्राभाकरा हि सर्वस्याऽपि ज्ञानस्य यथार्थत्वं मन्यमानाः 'शुक्तौ इदं रजतम्' इत्यादिप्रसिद्धभ्रमस्थलेऽपि स्मृतिप्रत्यक्षरूपे द्वे ज्ञाने तयोश्च विवेकाख्यातिपरपर्यायं भेदाग्रह कल्पयित्वा सर्वज्ञानयथार्थत्वगोचरं स्वकीयं सिद्धान्तं समर्थयमानाः तुल्ययुक्त्या प्रत्यभिज्ञास्थ
लेऽपि अगृहीतभेदं स्मृतिप्रत्यक्षरूपं ज्ञानद्वयमेव कल्पयन्ति इति तेषामपि कल्पना अत्र निराम्य25 त्वेन 'अत एव' इत्यादिना निर्दिष्टा ।
पृ० ९. पं० १९. यदि च सर्वज्ञानयथार्थत्वसिद्धान्तानुरोधेन भ्रमस्थले प्रत्यभिज्ञास्थले च ज्ञानद्वयमेव अभ्युपगम्यते न किञ्चिदेकं ज्ञानम् , तदा विशिष्टज्ञानस्यापि अनङ्गीकार एवं श्रेयान् , सर्वस्यापि हि विशिष्टज्ञानस्य विशेष्यज्ञान-विशेषणज्ञानोभयपूर्वकत्वनियमेन अवश्यक्लप्ततदुभय
ज्ञानेनैव अगृहीतभेदमहिना विशिष्टबुद्ध्युपपादने तदुभयज्ञानव्यतिरिक्तस्य तदुत्तरकालवर्तिनो 30 विशिष्टज्ञानस्य कल्पने गौरवात् इत्यभिप्रायेण प्राभाकरमतं दूषयति-'इत्थं सति' इत्यादिना ।
पृ० ९. पं० २०. प्रत्यभिज्ञानस्य प्रत्यक्षत्वमेव न तु तद्यतिरिक्तज्ञानत्वमिति नैयायिकमतमाशकते 'तथापि अक्षान्वय' इत्यादिना ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org