________________
पृ० ९.५० १.]
तात्पर्यसमहा वृत्तिः। अथवा गमाः सदृशपाठाः ते च कारणवशेन यत्र बहवो भवन्ति तद गमिकम्, तचैवंविधं प्रायः दृष्टिवादे । यत्र प्रायो गाथाश्लोकवेष्टकाद्यसदृशपाठात्मकं तदगमिकम् , तच्चैवंविधं प्रायः कालिकश्रुतम् ।" विशेषा० बृ० गा० ५४९ __पृ० ७. पं० १८. 'अङ्गप्रविष्टम्'-"गणधरकृतं पदत्रयलक्षणतीर्थकरादेशनिप्पन्नम् , ध्रुवं च यच्छ्रतं तदङ्गप्रविष्टमुच्यते, तच्च द्वादशाङ्गीरूपमेव । यत्पुनः स्थविरकृतं मुत्कलार्थाभिधानं चलं च । तद् आवश्यकप्रकीर्णादिश्रुतम् अङ्गबाह्यमिति ।" -विशेषा० ३० गा० ५५०.
पृ० ८. पं० ७. 'मनोमात्र' -विशेषा• बृ० गा० ८१०.
पृ० ८. पं० ८. 'बाह्यानर्थान्'-"तेन द्रव्यमनसा प्रकाशितान् बायांश्चिन्तनीयघटादीननुमानेन जानाति, क्त एव तत्परिणतानि एतानि मनोद्रव्याणि तस्मादेवंविधेनेह चिन्तनीयवस्तुना भाव्यम् इत्येवं चिन्तनीयवस्तूनि जानाति न साक्षादित्यर्थः । चिन्तको हि मूर्तममूर्त च 10 वस्तु चिन्तयेत् । न च छद्मस्थोऽमूर्त साक्षात् पश्यति । ततो ज्ञायते अनुमानादेव चिन्तनीयं वस्त्ववगच्छति ।" -विशेषा० बृ• गा० ८१४.
पृ० ८. पं० १५. 'निखिलद्रव्य' -विशेषा० बृ० गा० ८२३. पृ० ८. पं० २२. 'कवलभोजिनः कैवल्यम्'"जरवाहिदुक्खरहियं आहारणिहारवजियं विमलं ।
16 सिंहा(घा)णखेलसेओ णत्थि दुगंछा य दोसो य॥". बोधप्राभृत-३५. "कवलाभ्यवहारजीविनः केवलिनः इत्येवमादिवचनं केवलिनामवर्णवादः ।"
सर्वार्थसि० ६.१३. राजवा०. ६. १३. पृ. ९. पं० १. न्याय-वैशेषिक-साय-योग-मीमांसा-बौद्धादिदर्शनाना स्मृतेरप्रमात्वं जैनदर्शनस्य पुनस्तस्याः प्रमात्वमभिमतम् । अत एव ग्रन्थकारेण अत्र स्मृत्यप्रमात्वसम- 20 र्थनपरां विविधां युक्तिं निरसितुकामेन पूर्व चिन्तामणिकारोपन्यस्ता स्मृत्ययथार्थत्वसमर्थिका युक्तिः समालोचयितुमुपक्रान्ता 'अतीततत्तांशे' इत्यादिना। चिन्तामणिकारो हि-"यद्वा स घटः इति स्मृतौ तचाविशिष्टस्य वर्तमानता भासते ।....तत्र विशेष्यस्य विशेषणस्य वा वर्तमानत्वाभावात् स्मृतिरयथार्थव" [ प्रत्यक्षचि० पू० ८४५ ] इत्यादिना प्रन्थेन ‘स घटोऽस्ति' इत्यादिस्मृतौ तद्देशकालवर्तित्वरूपतत्ताविशिष्टे विशेष्यभूते घटे तद्देशकालवर्तित्वरूपे तन- 25 विशेषणे वा वर्तमानकालीनास्तित्वावगाहितया तत्र च तथाभूते विशिष्टे विशेषणे वा वर्तमानकालीनास्तित्वस्य बाधात् स्मृतेरयथार्थत्वं दर्शितवान् ।
अन्धकारस्तु चिन्तामणिकाराङ्गीकृतं विशेषणे विशेष्यकालभाननियमं सार्वत्रिकत्वेन अनभ्युपगम्य तनियमबलेन चिन्तामणिकारसमर्थितं स्मृत्ययथार्थत्वमपाकरोति 'सर्वत्र विशेषणे विशेज्यकालभानानियमात्' इत्यादिना । तथा च अन्धकारमते ‘स घटः' इत्यादौ अतीततत्तांशे 30 पर्समानकालवर्तित्वस्थ भानाभावात् एकस्मिन्नेव घटात्मके धर्मिणि अतीततत्तायाः वर्तमानकाल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org