________________
५०
जैनतर्कभाषायाः
[पृ० ७. पं० १०तादिश्रवणे 'सशोकोऽयम्' इत्यादिनानम् । एवं विशिष्टाभिसन्धिपूर्वकनिष्ठ्यूतकासितक्षुतादिश्रवणेऽपि आत्मज्ञानादि ज्ञानं वाच्यमिति । अथवा श्रुतज्ञानोपयुक्तस्य आत्मनः सर्वात्मनैवोपयोगात् सर्वोऽपि उच्छृसितादिको व्यापारः श्रुतमेवेह प्रतिपत्तव्यम् इति उच्छृसितादयः श्रुतं भवन्त्येवेति ।" -विशेषा. वृ• गा०५०२. 5 पृ० ७. पं०.१०. 'सद्भिश्रुतम्' -विशेषा• बृ० गा० ५०४.
"इदमुक्तं भवति-यतः स्मरणचिन्तादिदीर्घकालिकज्ञानसहितः समनस्कपश्चेन्द्रियः संज्ञीत्यागमे व्यवहियते, असंज्ञी तु प्रसघप्रतिषेधमाश्रित्य यद्यप्येकेन्द्रियादिरपि लभ्यते तथापि समनस्कसंज्ञी तावत् पञ्चेन्द्रिय एव भवति । ततः पर्युदासाश्रयणात् असंश्यपि अमनस्कसंमूर्च्छन
पञ्चेन्द्रिय एव आगमे प्रायो व्यवहियते । तदेवंभूतः संज्ञासंज्ञिव्यवहारो दीर्घकालिकोपदेशेनैव 10 उपपद्यते ।" -विशेषा० ६. गा० ५२६..
पृ० ७. पं० ११. 'सम्यक्'-"इह अङ्गप्रविष्टम् आचारादि श्रुतम् , अनाप्रविष्ट तु आवश्यकादि श्रुतम् । एतद् द्वितयमपि स्वामिचिन्तानिरपेक्षं स्वभावेन सम्यक् श्रुतम् । लौकिकं तु भारतादि प्रकृत्या मिथ्याश्रुतम् । स्वामित्वचिन्तायां पुनः लौकिके भारतादौ लोकोत्तरे च आचारादौ
भजनाऽवसेया । सम्यग्दृष्टिपरिगृहीतं भारताद्यपि सम्यक् श्रुतं सावधभाषित्व-भवहेतुत्वादियथा15 वस्थिततत्त्वस्वरूपबोधतो विषयविभागेन योजनात् । मिथ्यादृष्टिपरिगृहीतं तु आचाराद्यपि अयथावस्थितबोधतो वैपरीत्येन योजनादिति भावार्थ इति ।” विशेषा• बृ० गा० ५२७.
पृ० ७. पं० १४. 'सादि द्रव्यतः'-विशेषा• ६० गा० ५३८, ५४८.
पृ० ७. पं० १४. 'क्षेत्रतश्च'-"क्षेत्रे चिन्त्यमाने भरतैरावतक्षेत्राण्याश्रित्य सम्यक् श्रुतं सादि सनिधनं च भवति । एतेषु हि क्षेत्रेषु प्रथमतीर्थकरकाले तद्भवतीति सादित्वं, चरमतीर्थ20 कृत्तीर्थान्ते तु अवश्यं व्यवच्छिद्यते इति सपर्यवसितत्वमिति । काले तु अधिक्रियमाणे द्वे समे
उत्सर्पिण्यवसर्पिण्यौ समाश्रित्य तत्रैव तेष्वेव भरतैरावतेष्वेतत् सादि सपर्यवसितं भवति; द्वयोरपि समयोः तृतीयारके प्रथमं भावात् सादित्वम् । उत्सपिण्यां चतुर्थस्यादौ, अवसर्पिण्यां तु पञ्चमस्यान्ते अवश्यं व्यवच्छेदात् सपर्यवसितत्वम् । भावे पुनः विचार्यमाणे प्रज्ञापकं गुरुम् , श्रुतप्रज्ञाप
नीयांश्च अर्थानासाद्य इदं सादि सपर्यवसितं स्यादिति ।" -विशेषा• बृ० गा० ५४६. 25 पृ० ७. पं० १५. 'अनादि द्रव्यत:'-"द्रव्ये-द्रव्यविषये नानापुरुषान् नारकतिर्यमनु
प्यदेवगतान् नानासम्यग्दृष्टिजीवानाश्रित्य श्रुतज्ञानं सम्यक्श्रुतं सततं वर्तते। अभूत् भवति भविष्यति चानतु कदाचिद् व्यवच्छिद्यते । ततस्तानाश्रित्य इदम् अनादि अपर्यवसितं च स्यादिति भावः । क्षेत्रे पुनः पञ्चमहाविदेहलक्षणान् विदेहानङ्गीकृत्य । काले तु यस्तेष्वेव विदेहेषु कालः अनवसर्पिण्युत्सर्पि
णीरूपः तमाश्रित्य । भावे तु क्षायोपशमिके श्रुतज्ञानं सततं वर्तते अतोऽनादि अपर्यवसितम् । 30 सामान्येन हि महाविदेहेषु उत्सर्पिण्यवसर्पिण्यभावरूपनिजकालविशिष्टेषु द्वादशाङ्गश्रुतं कदापि न व्यवच्छिद्यते तीर्थहरगणधरादीनां तेषु सर्वदैव भावात् ।”-विशेषा• बृ• गा० ५४८.
पृ० ७. पं० १७. 'गमिकम्'-गमा भगका गणितादिविशेषाश्च तद्बहुलं तत्सलं गमिकम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org