________________
पृ० ७. पं० ७.] तात्पर्यसमहा वृत्तिः।
४९ स्माभिः पूर्वमुपलब्धम्' इति । तत् कथमुच्यते-उत्क्रमातिकमाभ्याम् , एकादिवैकल्ये च न वस्तुसद्भावाधिगमः ? "-विशेषा० बृ० गा० २९८.
"भ्रान्तोऽयमनुभव इति दर्शयन्नाह-यथा तरुणः समर्थपुरुषः पद्मपत्रशतस्य सूच्यादिना वेधं कुर्वाण एवं मन्यते-मया एतानि युगपद् विद्धानि । अथ च प्रतिपत्रं तानि कालमेदेनैव भिद्यन्ते । न चासौ तं कालमतिसौक्ष्म्याद् भेदेनावबुध्यते । एवमत्रापि अवग्रहादिकालस्य अतिसूक्ष्मतया 5 दुर्विभावनीयत्वेन अप्रतिभासः, न पुनरसत्त्वेन । तस्मादुत्पलपत्रशतवेधोदाहरणेन भ्रान्त एवायं प्रथमत एव अपायादिप्रतिभासः । यथा शुष्कशप्कुलीदशने युगपदेव सर्वेन्द्रियविषयाणां उपलब्धिः प्रतिभाति, तथैषोऽपि प्राथम्येनापायादिप्रतिभासः । पञ्चानामपि इन्द्रियविषयाणामुपलब्धियुगपदेवास्य प्रतिभाति । न चेयं सत्या, इन्द्रियज्ञानानां युगपदुत्पादायोगात् । तथाहि-- मनसा सह संयुक्तमेवेन्द्रियं स्वविषयज्ञानमुत्पादयति, नान्यथा, अन्यमनस्कस्य रूपादिज्ञानानु- 10 पलम्भात् । न च सर्वेन्द्रियैः सह मनो युगपत् संयुज्यते तस्यैकोपयोगरूपत्वात् , एकत्र ज्ञातरि एककालेऽनेकैः संयुज्यमानत्वाऽयोगात्। तस्मात् मनसोऽत्यन्ताऽऽशुसंचारित्वेन कालभेदस्य दुर्लक्षत्वात् युगपत् सर्वेन्द्रियविषयोपलब्धिरस्य प्रतिभाति । परमार्थतस्तु अस्यामपि कालभेदोऽस्त्येव । ततो यथाऽसौ भ्रान्तै!पलक्ष्यते तथाऽवग्रहादिकालेऽपीति प्रकृतम् । तदेवम् अवग्रहादीनां नैकादिवैकल्यम् , नाऽप्युत्क्रमातिक्रमौ इति स्थितम् ।" -विशेषा. वृ० गा० २९.९. 15
पृ० ६. पं० १९. 'तदेवम् अर्थावग्रहादयः' -विशेषा० बृ• गा० ३००, ३०१.. पृ० ६. पं० २०. 'अथवा बहुबहु'-विशेषा• बृ० गा० ३०७. पृ० ६. पं० २१. 'बहादयश्च भेदाः'-विशेषा• बृ• गा० ३०८-३१०. पृ० ७. पं० २. 'श्रुतम् अक्षर'-आव० नि० १९. विशेषा० बृ० गा० ४५४. पृ० ७. पं० ३. 'तत्राक्षरं त्रिविधम्'-विशेषा० बृ० गा० ४६४-४६६.
20 पृ० ७. पं० ४. 'एते चोपचाराच्छुते'-"सञ्ज्ञाक्षरम् , व्यञ्जनाक्षरं चैते द्वे अपि भावश्रुतकारणत्वात् द्रव्यश्रुतम् ।" -विशेषा• बृ० गा० ४६७.
पृ० ७. पं० ५. 'एतच्च परोपदेशं विनापि'-"यदपि परोपदेशजत्वमक्षरस्य उच्यते तदपि सज्ञा-व्यञ्जनाक्षरयोरेवाऽवसेयम् । लब्ध्यक्षरं तु क्षयोपशमेन्द्रियादिनिमित्तमसम्झिनां न विरुध्यते ।" -विशेषा० बृ• गा० ४७५.
25 ___ “यथा वा संज्ञिनामपि परोपदेशाभावेन केषाश्चिदतीवमुग्धप्रकृतीनां पुलिन्दबालगोपालगवादीनामसत्यपि नरादिवर्णविशेषविषये विज्ञाने लब्ध्यक्षरं किमपीक्ष्यते, नरादिवर्णोच्चारणे तच्छ्रवणात् अभिमुखनिरीक्षणादिदर्शनाच्च । गौरपि हि शबलाबहुलादिशब्देन आकारिता सती स्वनाम जानीते प्रवृत्तिनिवृत्त्यादि च कुर्वती दृश्यते । नचैषां गवादीनां तथाविधः परोपदेशः समस्ति ।" -विशेषा• बृ० गा० ४७६.
30 पृ० ७. पं० ७. 'अनक्षरश्रुत'-आव० नि० २०.
"इह उच्छृसिताद्यनक्षरश्रुतं द्रव्यश्रुतमात्रमेवावगन्तव्यं शब्दमात्रत्वात् । शब्दश्च भावश्रुतस्य कारणमेव । यच्च कारणं तद् द्रव्यमेव भवतीति भावः । भवति च तथाविधोच्छ्वसितनिःश्वसि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org