________________
४८
जैनतभाषायाः
[पृ० ६. पं० ११वासनारूपायास्त्रिविधाया अपि धारणाया अघटमानत्वात् त्रिधैव मतिः प्रामोति, न चतुर्धा ।" विशेषा. बृ० गा० १८९.
पृ० ६. पं० ११. 'न; स्पष्ट-'-"अत्रोच्यते यत् तावत् गृहीतग्राहित्वादविच्युतेरप्रामाण्यमुच्यते, तदयुक्तम् , गृहीतग्राहित्वलक्षणस्य हेतोरसिद्धत्वात् , अन्यकालविशिष्टं हि वस्तु 5 प्रथमप्रवृत्तापायेन गृह्यते, अपरकालविशिष्टं च द्वितीयादिवारा प्रवृत्तापायेन । किञ्च, स्पष्ट
म्पष्टतर-स्पष्टतमवासनापि स्मृतिविज्ञानावरणकर्मक्षयोपशमरूपा तद्विज्ञानजननशक्तिरूपा चेष्यते सा च यद्यपि स्वयं ज्ञानरूपा न भवति तथापि पूर्वप्रवृत्ताविच्युतिलक्षणज्ञानकार्यत्वात् उत्तरकालभाविस्मृतिरूपज्ञानकारणत्वाच्च उपचारतो ज्ञानरूपाऽभ्युपगम्यते । तद्वस्तुविकल्पपक्षस्तु अनभ्यु
पगमादेव निरस्तः । तस्मादविच्युति-स्मृति-वासनारूपाया धारणायाः स्थितत्वात् न मतेस्त्रैविध्यम् , 10 किन्तु चतुर्धा सेति स्थितम् ।” –विशेषा• वृ० गा० १८९.
पृ० ६. पं० १६. 'एते च अवग्रहा'-"ननु एते अवग्रहादय उत्क्रमेण, व्यतिक्रमेण वा किमिति न भवन्ति, यद्वा ईहादयस्त्रयः, द्वौ, एको वा किं नाभ्युपगम्यन्ते, यावत् सर्वेप्यभ्युपगम्यन्ते । इत्याशङ्कयाह-तत्र पश्चानुपूर्वीभवनमुक्रमः अनानुपूर्वीभवनं त्वतिक्रमः, कदाचि
दवग्रहमतिक्रम्येहा, तामप्यतिलवयाऽपायः, तमपि अतिवृत्य धारणेति-एवमनानुपूर्वीरूपोऽतिक्रमः । 15 एताभ्यामुत्क्रम-व्यतिक्रमाभ्यां तावदवग्रहादिभिर्वस्तुम्वरूपं नावगम्यते। तथा एषां मध्ये एक
स्याप्यन्यतरस्य वैकल्ये न वस्तुस्वभावावबोधः, ततः सर्वेप्यमी एष्टव्याः, न त्वेकः, द्वौ, त्रयो वा ।" --विशेषा. बृ० गा० २९५.
“यस्मादवग्रहेणाऽगृहीतं वस्तु नेह्यते ईहाया विचाररूपत्वात् , अगृहीते च वस्तुनि निरास्पदत्वेन विचारायोगादिति अनेन कारणेनादाववग्रहं निर्दिश्य पश्चादीहा निर्दिष्टा । न चाऽनी20 हितम् अपायविषयतां याति अपायम्य निश्चयरूपत्वात् , निश्चयस्य च विचारपूर्वकत्वात् । एत
दभिप्रायवता चाऽपायस्यादौ ईहा निर्दिष्टेति । न चापायेनानिश्चितम् धारणाविषयीभवति वस्तु धारणाया अर्थावधारणरूपत्वात् , अवधारणस्य च निश्चयमन्तरेणायोगादित्यभिप्रायः । ततश्च धारणादौ अपायः । ततः किम् ? । तेनावग्रहादिक्रमो न्याय्यः नोत्क्रमाऽतिक्रमौ, यथोक्तन्यायेन
वस्त्ववगमाभावप्रसङ्गात् ।" -विशेषा. वृ० गा० २९६. 25 "ज्ञेयस्यापि शब्दादेः स स्वभावो नास्ति य एतैरवग्रहादिभिरेकादिविकलैरभिन्नैः समकालभाविभिः उत्क्रमातिक्रमवद्भिश्चावगम्येत किन्तु शब्दादिज्ञेयस्वभावोपि तथैव व्यवस्थितो यथा अमीभिः सर्वैः भिन्नैः असमकालैः उत्क्रमातिक्रमरहितैश्च सम्पूर्णो यथावस्थितश्चावगम्यते अतो ज्ञेयवशेनाप्येते यथोक्तरूपा एव भवन्ति ।" -विशेषा० बृ० गा० २९७ । प्र. न. २. १४-१७.
पृ० ६. पं १७. 'क्वचिदभ्यस्ते' "अत्र परः प्राह-अनवरतं दृष्टपूर्वे विकल्पिते, भाषिते च 30 विषये पुनः कचित् कदाचिदवलोकितेऽवग्रहेहाद्वयमतिक्रम्य प्रथमतोऽप्यपाय एव लक्ष्यते निर्विवा
दमशेषैरपि जन्तुभिः, यथा 'असौ पुरुषः' इति । अन्यत्र पुनः कचित् पूर्वोपलब्धे सुनिश्चिते दृढवासने विषयेऽवग्रहहापायानतिलङ्घय स्मृतिरूपा धारणैव लक्ष्यते, यथा 'इदं तद् वस्तु यद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org