________________
पृ. ६. पं० १६.] तात्पर्यसमहा वृत्तिः । कालभाविन्यपाये अन्तर्भूतत्वात् , वासनायास्तु स्मृत्यन्तर्गतत्वेन विवक्षितत्वात् , स्मृतेरनन्यशरणत्वात् मतेः पञ्चमो भेदः प्रसज्यते ।” –विशेषा• बृ० गा० १८७.
__ पृ० ५. पं० २९. 'अथ नास्त्येव' “ननु यथैव मया व्याख्यायते-व्यतिरेकमुखेन निश्चयोऽपायः, अन्वयमुखेन तु धारणा-इत्येवमेव चतुर्विधा मतियुक्तितो घटते । अन्यथा तु व्याख्यायमाने-अन्वयव्यतिरेकयोर्द्वयोरप्यपायत्वेभ्युपगम्यमाने-अवग्रहहापायभेदतस्त्रिभेदा मतिभ- 5 वति न पुनश्चतुर्धा, धारणाया अघटमानत्वात् ।" -विशेषा० बृ० गा० १८७.
पृ० ५. पं० २९. 'तथाहि उपयोगोपरमें-"कथं पुनर्धारणाऽभावः ?। इह तावत् निश्चयोऽपायमुखेन घटादिके वस्तुनि अवग्रहेहापायरूपतया अन्तर्मुहूर्तप्रमाण एव उपयोगो जायते तत्र च अपाये जाते या उपयोगसातत्यलक्षणाऽविच्युतिर्भवताऽभ्युपगम्यते सा अपाय एव अन्तर्भूता इति न ततो व्यतिरिक्ता । या तु तस्मिन् घटाधुपयोगे उपरते सति सङ्ख्येयमसङ्ख्येयं वा कालं 10 वासनाऽभ्युपगम्यते 'इदं तदेव' इतिलक्षणा स्मृतिश्चाङ्गीक्रियते सा मत्यंशरूपा धारणा न भवति मत्युपयोगस्य प्रागेवोपरतत्वात् । कालान्तरे पुनर्जायमानोपयोगेऽपि या अन्वयमुखोपजायमानाऽवधारणरूपा धारणा मया इष्यते सा यतोऽपाय एव भवताऽभ्युपगम्यते ततस्तत्रापि नास्ति धृतिः धारणा, तस्मादुपयोगकाले अन्वयमुखावधारणरूपाया धारणायाः त्वयाऽनभ्युपगमात् उपयोगोपरमे च मत्युपयोगाभावात् तदंशरूपाया धारणायाः अघटमानकत्वात् त्रिधैव भवदभिप्रायेण मतिः 15 प्रामोति न चतुर्धा इति पूर्वपक्षाभिप्रायः ।" -विशेषा० बृ० गा० १८८-९.
पृ० ६. पं० ३. 'न; अपाय'-"अत्रोत्तरमाह-कालान्तरे या स्मृतिरूपा बुद्धिरुपजायते, नन्विह सा पूर्वप्रवृत्तादपायात् निर्विवादमभ्यधिकैव पूर्वप्रवृत्तापायकाले तस्या अभावात् साम्प्रतापायस्य तु वस्तुनिश्चयमात्रफलत्वेन पूर्वापरदर्शनानुसन्धानायोगात् । यस्माच्च वासनाविशेषात् पूर्वोपलब्धवस्त्वाहितसंस्कारलक्षणात्-'इदं तदेव' इतिलक्षणा स्मृतिर्भवति सापि वासनापाया- 20 दभ्यधिका इति । या च अपायादनन्तरमविच्युतिः प्रवर्तते साऽपि । इदमुक्तं भवति-यस्मिन् समये 'स्थाणुरेवायम्' इत्यादिनिश्चयस्वरूपोऽपायः प्रवृत्तः ततः समयादूर्ध्वमपि 'स्थाणुरेवायं स्थाणुरेवायम्' इति अविच्युत्या या अन्तर्मुहूर्त क्वचिदपायप्रवृत्तिः सापि अपायाविच्युतिः प्रथमप्रवृत्तापायादभ्यधिका । एवमविच्युति-वासना-स्मृतिरूपा धारणा त्रिधा सिद्धा ।" -विशेषा. बृ० गा० १८८-१.
25 पृ० ६. पं० ७. 'नन्वविच्युति'-"नन्वविच्युतिस्मृतिलक्षणौ ज्ञानभेदी गृहीतग्राहित्वान्न प्रमाणम् , वासना तु किंरूपा ?, इति वाच्यम् । संस्काररूपेति चेत् ; कोऽयं संस्कारःस्मृतिज्ञानावरणक्षयोपशमो वा तज्ज्ञानजननशक्तिर्वा, तद्वस्तुविकल्पो वा :, इति त्रयी गतिः । तत्राद्यपक्षद्वयमयुक्तम् , ज्ञानरूपत्वाभावात् । तृतीयपक्षोप्ययुक्त एव मिन्नधर्मकवासनाजनकत्वादप्यविच्युतिप्रवृत्तद्वितीयाधपायविषयं वस्तु भिन्नधर्मकमेव, इति कथमविच्युतेर्गृहीतग्राहिता ? । 30 स्मृतिरपि पूर्वोत्तरदर्शनद्वयानधिगतं वस्त्वेकत्वं गृहाना न गृहीतग्राहिणी । सङ्ख्येयमसङ्ख्येयं वा कालं वासनाया इष्टत्वात् , एतावन्तं च कालं तद्वस्तुविकल्पायोगात् । तदेवमविच्युति-स्मृति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org