________________
जैनतर्कभाषायाः
[पृ० ५.५० १७___पृ० ५. पं० १७. 'नचेयं संशय'-"निर्णयादर्शनात् ईहायां तत्प्रसङ्ग इति चेत् ; न; अर्थादानात् ।” “संशयपूर्वकत्वाच ।" -तत्त्वार्थरा० १. १५. ११, १२ । प्र. न. २. ११.
पृ० ५. पं० १९. 'ईहितस्य'-"मधुरस्निग्धादिगुणत्वात् शङ्खस्यैवाऽयं शब्दः, न शृङ्गस्य इत्यादि यद् विशेषविज्ञानम् , सोऽपायो निश्चयज्ञानरूपः । कुतः ? । पुरोवय॑यधर्माणामनु5 गमभावादस्तित्वनिश्चयसद्भावात् , तत्राविद्यमानार्थधर्माणां तु व्यतिरेकभावात् नास्तित्वनिश्चय
सत्त्वात् । अयं च व्यवहारावग्रहानन्तरभावी अपाय उक्तः, निश्चयावग्रहानन्तरभावी तु श्रोत्रग्राह्यत्वादिगुणतः 'शब्द एवायं न रूपादिः' इति ।" -विशेषा• बृ• गा. २९..
पृ० ५. पं० २१. 'स एव दृढ'-"अपायेन निश्चितेऽर्थे तदनन्तरं यावदद्यापि तदर्थोपयोगसातत्येन वर्तते न तु तस्मान्निवर्तते तावत् तदर्थोपयोगादविच्युतिर्नाम सा धारणायाः प्रथममेदो 10 भवति । ततः तस्य अर्थोपयोगस्य यदावरणं कर्म तस्य क्षयोपशमेन जीवो युज्यते येन कालान्तरे
इन्द्रियव्यापारादिसामग्रीवशात् पुनरपि तदर्थोपयोगः स्मृतिरूपेण समुन्मीलति सा चेयं तदावरणक्षयोपशमरूपा वासना नाम द्वितीयस्तद्भेदो भवति । कालान्तरे च वासनावशात तदर्थस्य इन्द्रियैरुपलब्धस्य अथवा तैरनुपलब्धस्यापि मनसि या स्मृतिराविर्भवति सा तृतीयस्तद्भद इति ।
एवं त्रिभेदा धारणा विज्ञेया ।" -विशेषा• वृ० गा० २९१. 15 पृ० ५. पं० २५. 'केचित्तु अपनयन'-"तत्र विद्यमानात् स्थाण्वादेर्योऽन्यः तत्प्रतियोगी
तत्राविद्यमानः पुरुषादिः तद्विशेषाः शिरःकण्डूयनचलनस्पन्दनादयः तेषां पुरोवर्तिनि सद्भूतेऽर्थ अपनयनं निषेधनं तदन्यविशेषाफ्नयनं तदेव तन्मात्रम् अपायमिच्छन्ति केचन अपायनमपनयनमपाय इति व्युत्पत्त्यर्थविभ्रमितमनस्काः । अवधारणं धारणा इति च व्युत्पत्त्यर्थभ्रमितास्ते धारणां
ब्रुवते । किं तत् । सद्भूतविशेषावधारणम्-सद्भूतस्तत्र विवक्षितप्रदेशे विद्यमानः स्थाण्वादिरर्थवि20 शेषस्तस्य 'स्थाणुरेवायम्' इत्यवधारणम् ।" -विशेषा० ऋ० गा० १८५..
पृ० ५. पं० २७. 'तन'-"तदेतद् दूषयितुमाह-कस्यचित् प्रतिपत्तुः तदन्यव्यतिरेकमात्रादवगमनं निश्चयो भवति तद्यथा यतो नेह शिरःकण्डूयनादयः पुरुषधर्मा दृश्यन्ते ततः स्थाणुरेवायमिति । कस्यापि सद्भूतसमन्वयतः यथा स्थाणुरेवायं वल्ल्युत्सर्पणवयोनिलयनादिधर्माणामि
हान्वयादिति । कस्यचित् पुनः तदुभयाद् अन्वयव्यतिरेकोभयात् तत्र भूतेऽर्थेऽवगमनं भवेत् ; 25 तयथा यस्मात् पुरुषधर्माः शिरःकण्डूयनादयोऽत्र न दृश्यन्ते वरल्युत्सर्पणादयस्तु स्थाणुधर्माः
समीक्ष्यन्ते तस्मात् स्थाणुरेवायमिति । नचैवमन्वयात् व्यतिरेकात् उभयाद्वा निश्चये जायमाने कश्चिद्दोषः । परव्याख्याने तु वक्ष्यमाणन्यायेन दोषः ।" -विशेषा० बृ• गा० १८६.
पृ० ५. पं० २८. 'अन्यथा स्मृतेः' -“यस्माद् व्यतिरेकाद् अन्वयादुभयाद्वा भूतार्थविशेषावधारणं कुर्वतो योऽध्यवसायः स सर्वोऽपि अपायः न तु सद्भूतार्थविशेषावधारणं धारणा 30 इति । व्यतिरेकोऽपायः अन्वयस्तु धारणा इत्येवं मतिज्ञानतृतीयभेदस्य अपायस्य भेदे अभ्यु
पगम्यमाने पञ्च भेदा भवन्ति आभिनिबोधिकज्ञानस्य । तथाहि-अवग्रहेहापायधारणालक्षणाश्चत्वारो भेदास्तावत् त्वयैव पूरिताः पञ्चमस्तु मेदः स्मृतिलक्षणः प्रामोति अविच्युतेः स्वसमान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org