________________
पृ. ५. पं० १५.]
तात्पर्यसङ्महा वृत्तिः । न्तरम् 'किमयं शब्दः शाङ्खः शाङ्गों वा; इत्यादिरूपेहा प्रवर्तते । ततस्तद्विशेषस्य-शङ्खप्रभवत्वादेः शब्दविशेषस्य 'शाङ्ख एवायम्' इत्यादिरूपेणापायश्च निश्चयरूपो भवति । अयमपि च भूयोन्यतद्विशेषाकाङ्क्षावतः प्रमातुर्भाविनीमीहामपायं चापेक्ष्य, एप्यविशेषापेक्षया सामान्यालम्बनत्वाचार्थावग्रह इत्युपचर्यते । इयं च सामान्यविशेषापेक्षा तावत् कर्तव्या यावदन्त्यो वस्तुनो विशेषः । यस्माच्च विशेषात् परतो वस्तुनोऽन्ये विशेषा न सम्भवन्ति सोऽन्त्यः, अथवा सम्भवत्स्वपि अन्य- 5 विशेषेषु यतो विशेषात् परतः प्रमातुस्तजिज्ञासा निवर्तते सोऽन्त्यः, तमन्त्यं विशेषं यावद् व्यावहारिकार्थावग्रहेहापायार्थ सामान्यविशेषापेक्षा कर्तव्या ।" -विशेषा० बृ० गा० २८२-४.
“सर्वत्र विषयपरिच्छेदे कर्तव्ये निश्चयतः ईहापायौ भवतः 'ईहा, पुनरपायः, पुनरीहा, पुनरप्यपायः' इत्ययं क्रमेण यावदन्त्यो विशेषः तावदीहापायावेव भवतः, नार्थावग्रहः । किं सर्वत्रैवमेव ? । न; आद्यमव्यक्तं सामान्यमात्रालम्बनमेकं सामयिकं ज्ञानं मुक्त्वाऽन्यत्रेहापायौ भवतः। 10 इदं पुनर्नेहा, नाप्यपायः, किन्तु अर्थावग्रह एव । संव्यवहारार्थ व्यावहारिकजनप्रतीत्यपेक्षं पुनः सर्वत्र यो योऽपायः स स उत्तरोत्तरेहाऽपायापेक्षया, एप्यविशेषापेक्षया चोपचारतोऽर्थावग्रहः । एवं च तावद् नेयम् यावत्तारतम्येनोत्तरोत्तरविशेषाकाङ्क्षा प्रवर्तते ।"-विशेषा• बृ० गा० २८.५. ___"लोकेऽपि हि यो विशेषः सोऽपि अपेक्षया सामान्यम् , यत् सामान्यं तदप्यपेक्षया विशेष इति व्यवहियते, तथाहि-'शब्द एवायम्' इत्येवमध्यवसितोऽर्थः पूर्वसामान्यापेक्षया विशेषः, 15 'शाङ्खोऽयम्' इत्युत्तरविशेषापेक्षया तु सामान्यम् । अयं चोपर्युपरिज्ञानप्रवृत्तिरूपेण सन्तानेन लोके रूढः सामान्यविशेषव्यवहारः औपचारिकावग्रहे सत्येव घटते नान्यथा तदनभ्युपगमे हि प्रथमापायानन्तरमीहानुत्थानम् , उत्तरविशेषाग्रहणं चाभ्युपगतं भवति । उत्तरविशेषाग्रहणे च प्रथमापायव्यवसितार्थस्य विशेषत्वमेव न सामान्यत्वम् इति पूर्वोक्तरूपो लोकप्रतीतः सामान्यविशेषव्यवहारः समुच्छिद्येत । अथ प्रथमापायानन्तरमभ्युपगम्यत ईहोत्थानम् , उत्तरविशेषग्रहणं 20 च; तर्हि सिद्धं तदपेक्षया प्रथमापायव्यवसितार्थस्य सामान्यत्वम् , यश्च सामान्यग्राहकः, यदनन्तरं च ईहादिप्रवृत्तिः सोऽर्थावग्रहः नैश्चयिकाद्यर्थावग्रहवत् इत्युक्तमेव । इति सिद्धो व्यावहारिकार्थावग्रहः तत्सिद्धौ च सन्तानप्रवृत्त्याऽन्त्यविशेषं यावत् सिद्धः सामान्यविशेषव्यवहारः ।" -विशेषा० बृ• गा० २८८..
पृ० ५. पं० १५. 'अवगृहीत'-"नैश्चयिकार्थावग्रहे यत् सामान्यग्रहणं रूपायव्यावृत्त्याऽ- 25 व्यक्तवस्तुमात्रग्रहणम् , तथा व्यवहारावग्रहेऽपि यदुत्तरविशेषापेक्षया शब्दादिसामान्यग्रहणम् , तस्मादनन्तरमीहा प्रवर्तते । कथम्भूतेयम् । तत्र विद्यमानस्य गृहीतार्थस्य विशेषविमर्शद्वारेण मीमांसा । केनोलेखेन ? । 'किमिदं वस्तु मया गृहीतम्-शब्दः, अशब्दो वा रूपरसादिरूपः' ?। इदं च निश्चयार्थावग्रहानन्तरभाविन्या ईहायाः स्वरूपम् । अथ व्यवहारार्थावग्रहानन्तरसम्भविन्याः स्वरूपमाह-शाङ्ख-शाझ्योर्मध्ये कोऽयं भवेत् शब्दः शाङ्खः शार्हो वा' ? इति । ननु 'किं शब्दः 30 अशब्दो वा' इत्यादिकं संशयज्ञानमेव कथमीहा भवितुमर्हति ?; सत्यम् , किन्तु दिङ्मात्रमेवेदमिह दर्शितम् , परमार्थतस्तु व्यतिरेकधर्मनिराकरणपरः अन्वयधर्मघटनप्रवृत्तश्चापायाभिमुख एव बोधः-ईहा द्रष्टव्या " -विशेषा. बृ० गा० २८९.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org