________________
४४
जैनतर्कभाषायाः
[पृ०५. पं०८मात्रमान एवार्थावग्रहः, किन्तु चिरकालिकोऽपि, नहि समयमात्रमानतयैकरूपे तस्मिन् क्षिप्रचिरग्रहणविशेषणमुपपद्यत इति भावः । तस्मादेतद्विशेषणबलात् असङ्ख्येयसमयमानोऽप्यर्थावग्रहो युज्यते । तथा, बहूनां श्रोतृणामविशेषेण प्राप्तिविषयस्थे शङ्खमेर्यादिबहुतूर्यनिर्घोषे क्षयोपशमवैचि
यात् कोऽप्यबहु अवगृहाति-सामान्यं समुदिततूर्यशब्दमात्रमवगृहाति इत्यर्थः । अन्यस्तु बहुव5 गृह्णाति-शङ्खभेयादितूर्यशब्दान् भिन्नान् बहून् गृहातीत्यर्थः । अन्यस्तु स्त्री-पुरुषादिवाद्यस्व-स्निग्ध
मधुरत्वादिबहुविधविशेषविशिष्टत्वेन बहुविधमवगृहाति । अपरस्तु अबहुविधविशेषविशिष्टत्वादबहुविधमवगृद्धाति । अत एतस्माद् बहु-बहुविधाघनेकविकल्पनानात्ववशात् अवग्रहस्य कचित् सामान्यग्रहणम् , कचित्तु विशेषग्रहणम् इत्युभयमप्यविरुद्धम् । अतो यत् सूत्रे 'तेणं सहेत्ति उग्गहिए'
इति वचनात् 'शब्दः' इति विशेषविज्ञानमुपदिष्टम् , तदप्यर्थावग्रहे युज्यत एव इति केचित्" 10 -विशेषा• ६० गा० २८०.
पृ० ५. पं० ८. 'न; तत्वतः' "अत्रोत्तरमाह-बहुबहुविधादिग्राहको हि विशेषावगमो निश्चयः, स च सामान्यार्थग्रहणं ईहां च विना न भवति, यश्च तदविनाभावी सोऽपाय एव, कथमर्थावग्रह इति भण्यते ? । आह-यदि बहुबहुविधादिग्राहकोऽपाय एव भवति तर्हि कथमन्यत्र
अवग्रहादीनामपि बहादिग्रहणमुक्तम् !; सत्यम् ; किन्तु अपायस्य कारणमवग्रहादयः । कारणे च 15 योग्यतया कार्यस्वरूपमस्ति इति उपचारतस्तेऽपि बहादिग्राहकाः प्रोच्यन्ते इत्यदोषः । यद्येवं तर्हि
वयमपि अपायगत विशेषज्ञानमर्थावग्रहेपि उपचरिष्याम इति । नैतदेवम् ; यतो मुख्याभावे सति प्रयोजने निमित्ते च उपचारः प्रवर्तते। न चैवमुपचारे किञ्चित् प्रयोजनमस्ति । तेणं सद्देत्ति उग्गहिए' इत्यादिसूत्रस्य यथाश्रुतार्थनिगमनं प्रयोजनमिति चेत् ; न; 'सद्देत्ति भणइ वत्ता'
इत्यादिप्रकारेणाअपि तस्य निगमितत्वात् । सामर्थ्यव्याख्यानमिदम् , न यथाश्रुतार्थव्याख्येति 20 चेत् । तर्हि यापचारेणापि श्रौतोऽर्थः सूत्रस्य व्याख्यायत इति तवाभिप्रायः, तर्हि यथा युज्यत
उपचारः तथा कुरु । न चैतत् सामयिकेऽर्थावग्रहेऽसङ्ख्येयसामयिकं विशेषग्रहणं कथमप्युपपद्यते।" -विशेषा• बृ० गा० २८१.
पृ० ५. पं० १०. 'अथवा अवग्रहो'– “प्रथमं नैश्चयिके अर्थावग्रहे रूपादिभ्योऽव्यावत्तमव्यक्तं शब्दादिवस्तुसामान्यं गृहीतं ततः तस्मिन्नीहिते सति 'शब्द एवाऽयम्' इत्यादिनिश्च25 यरूपोऽपायो भवति । तदनन्तरं तु 'शब्दोऽयं किं शाङ्खः शार्को वा' इत्यादिशब्दविशेष
विषया पुनरीहा प्रवर्तिष्यते, 'शाङ्क एवायं शब्दः' इत्यादिशब्दविशेषविषयोऽपायश्च यो भविप्यति तदपेक्षया 'शब्द एवायम्' इतिनिश्चयः प्रथमोऽपायोऽपि सन्नुपचारादर्थावग्रहो भण्यते ईहा-पायापेक्षात इति, अनेन चोपचारस्यैकं निमित्तं सूचितम् । 'शाङ्खोऽयं शब्दः' इत्यायेष्यविशे
षापेक्षया येनाऽसौ सामान्यशब्दरूपं सामान्यं गृह्णाति इति, अनेन तूपचारस्यैव द्वितीयं निमित्त30 मावेदितम् , तथाहि-यदनन्तरमीहापायौ प्रवर्तेते, यश्च सामान्यं गृहाति सोऽर्थावग्रहः, यथायो
नैश्चयिकः, प्रवर्तते च 'शब्द एवायम्' इत्याद्यपायानन्तरमीहापायौ, गृहाति च 'शाङ्खोऽयम्' इत्यादिभाविविशेषापेक्षयाऽयं सामान्यम् । तस्मादर्थावग्रह एष्यविशेषापेक्षया सामान्यं गृहातीति उक्तम् । ततस्तदनन्तरं किं भवति ? । ततः सामान्येन शब्दनिश्चयरूपात् प्रथमापायादन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org