________________
पृ० ५. पं० ७.] तात्पयसमहा वृत्तिः। सम्बन्धे सामान्यार्थालोचनं स्यात् अन्यथा सर्वत्र सर्वदा तद्धावप्रसङ्गात् । व्यञ्जनावग्रहाच्च पूर्वम् अर्थव्यञ्जनसम्बन्धो नास्ति, तद्भावे च व्यञ्जनावग्रहस्यैव इष्टत्वात् तत्पूर्वकालता न म्यादिति ।" -विशेषा• बृ० गा० २४४.
पृ० ५. पं० ३. 'न द्वितीय:'--"द्वितीयविकल्पं शोधयन्नाह अर्थावग्रहोऽपि यस्मात् व्यञ्जनावग्रहम्यैव चरमसमये भवति तस्मात् पश्चादपि व्यञ्जनावग्रहादालोचनज्ञानं न युक्तम् , 5 निरवकाशत्वात् । नहि व्यञ्जनावग्रहयोरन्तरे काल: समस्ति यत्र तत् त्वदीयमालोचनज्ञानं स्यात्, व्यञ्जनावग्रहचरमसमय एवार्थावग्रहसद्भावात् ।" -विशेषा• बृ• गा० २७५.
पृ० ५. पं० ४. 'न तृतीयः' - "पूर्वपश्चात्कालयोनिषिद्धत्वात् पारिशेप्याद् मध्यकालवर्ती तृतीयविकल्पोपन्यस्तो व्यञ्जनावग्रह एव भवताऽऽलोचनाज्ञानत्वेनाभ्युपगतो भवेत् । एवं च न कश्चिद् दोषः, नाममात्र एव विवादात् ।" -विशेषा० बृ० गा० २७..
10 पृ० ५. पं० ४. 'तस्य च'-"क्रियतां तर्हि प्रेरकवर्गेण वर्धापनम् , त्वदभिप्रायाविसंवादलाभादिति चेत् ; नैवम् ; विकल्पद्वयम्येह सद्भावात् , तथाहि तद्वयञ्जनावग्रहकालेऽभ्युपगम्यमानमालोचनम्-किमर्थम्यालोचनम् , व्यञ्जनानां वा, इति विकल्पद्वयम् । तत्र प्रथमविकल्पं दषयनाह-तत्समालोचनं यदि सामान्यरूपम्य अर्थम्य दर्शनमिप्यते तहिं न व्यञ्जनावग्रहात्मकं भवति, व्यञ्जनावग्रहस्य व्यञ्जनसम्बन्धमात्ररूपत्वेन अर्थशून्यत्वात् । अथ द्वितीयविकल्पमङ्गीकृत्याह- 15 अथ व्यञ्जनम्य शब्दादिविषयपरिणतव्यसम्बन्धमात्रम्य तत्समालोचनमिप्यते तर्हि कथम् आलोचकत्वं तम्य घटते !, अर्थशून्यम्य व्यञ्जनसम्बन्धमात्रान्वितत्वेन सामान्यार्थालोचकत्वानुपपत्तेः । विशेषा. वृ० गा० २७६.
पृ० ५. पं० ५. 'किञ्च, आलोचनेन'-"भवतु तम्मिन् व्यञ्जनावग्रह सामान्यं गृहीतम् तथापि कथमनीहिते तस्मिन् अकस्मादेव अर्थावग्रहकाले 'शब्द एषः' इति विशेषज्ञान युक्तम् ।। 20 'शब्द एव एषः' इत्ययं हि निश्चयः । न चायमीहामन्तरेण झगित्येव युज्यते । अतो नार्थावग्रहे 'शब्द'इत्यादिविशेषबुद्धियुज्यते ।"-विशेषा० बृ० गा०२७८.
पृ० ५. पं० ६. 'युगपच्च'-“अथ अर्थावग्रहसमये शब्दाद्यवगमेन सहैवेहा भविष्यतीति मन्यसे; तत्राह-यदिदमर्थावग्रहे विशेषज्ञानं त्वया इष्यते सोऽपायः, स च अवगमस्वभावो निश्चयस्वरूप इत्यर्थः । या च तत्समकालमीहाऽभ्युपेयते सा तर्कस्वभावा अनिश्चयात्मिका इत्यर्थः । 25 तत एती ईहापायौ अनिश्चयेतरस्वभावी कथमर्थावग्रहे युगपदेव युक्तौ, निश्चयानिश्चययोः परस्परपरिहारेण व्यवस्थितत्वात् । अपरञ्च समयमात्रकालोऽर्थावग्रहः ईहापायौ तु प्रत्येकमसख्येयसमयनिष्पन्नौ कथम् एकस्मिन्नर्थावग्रहसमये स्याताम् अत्यन्तानुपपन्नत्वात्।" विशेषा० बृ० गा० २७९.
पृ० ५ पं० ७. 'नन्ववग्रहे'-"क्षिप्रमवगृहाति, चिरेणावगृह्णाति, बहवगृह्णाति, अबढ़वगृह्णाति, बहुविधमवगृह्णाति, अबहुविधमवगृह्णाति, एवमनिश्रितम् , निश्रितम् , असन्दिग्धम् , 30 सन्दिग्धम् , ध्रुवम् , अध्रुवमवगृह्णाति-इत्यादिना ग्रन्थेनावग्रहादयः शास्त्रान्तरे द्वादशभिर्विशेषणैविशेषिताः। ततः क्षिप्रं चिरेण वाऽवगृह्णाति' इति विशेषणान्यथानुपपत्तेञ्जयते नैकसमय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org