________________
४२
जैनतर्क भाषायाः
[ पृ० ४. पं० २३
' - अत्र अव्यक्तमिति
मुक्तम् ? | नन्द्यध्ययने ' से जहा नामए केइ पुरिसे अव्वत्तं सदं सुणेज्जत्ति'कोऽर्थः ? | 'शब्दोऽयम्' 'रूपादिर्वा' इत्यादिना प्रकारेणाव्यकमित्यर्थः । न च वक्तव्यम्शाङ्ख-शार्ङ्गभेदापेक्षया शब्दोल्लेखस्याप्यव्यक्तत्वे घटमाने कुत इदं व्याख्यानं लभ्यते ?, इति; अवग्रहस्थानाकारोपयोगरूपतया सूत्रे ऽधीतत्वात्, अनाकारोपयोगस्य च सामान्यमात्रविषयत्वात्, 5 प्रथममेवाऽपायप्रसक्त्याऽवग्रहेहाऽभावप्रसङ्ग इत्याद्युक्तत्वाच्च ।” -विशेषा० वृ० गा० २६२.
पृ० ४. पं० २३. 'यदि च व्यञ्जनावग्रहे' - " ननु यदि व्यञ्जनावग्रहेपि अव्यक्तशब्दग्रहणं भवेत् तदा को दोषः स्यात् ?, इत्याह-यदि च व्यञ्जनावग्रहे असौ अव्यक्तशब्दः प्रतिभासत इत्यभ्युपगम्यते तदा व्यञ्जनावग्रहो न प्राप्नोति, अर्थावग्रह एवासौ अव्यक्तार्थावग्रहणात् । अथ अस्यापि सूत्रे प्रोक्तत्वादस्तित्वं न परिहियते तर्हि द्वयोरप्यविशेषः सोपि अर्थावग्रहः सोपि व्यञ्जनावग्रहः 10 प्राप्नोति । " - विशेषा० बृ० गा० २६५.
पृ० ४. पं० २५. 'केचित्तु' - "केचिदेवमाहुः - यदेतत् सर्वविशेषविमुखस्याव्यक्तस्य सामान्यमात्रस्य ग्रहणं तत् शिशोस्तत्क्षणजातमात्रस्य भवति नात्र विप्रतिपत्तिः, असौ सकेतादिविकलोऽपरिचितविषयः । यः परिचितविषयः तस्य आद्यशब्दश्रवणसमय एव विशेषविज्ञानं स्पष्टत्वात् तस्य ततश्चामुमाश्रित्य 'तेण सद्देत्ति उगहिए' इत्यादि यथाश्रुतमेव व्याख्यायते, 15 न कश्चिद्दोषः ।" -विशेषा० बृ० गा० २६८.
पृ० ४. पं० २७. 'तन्न, एवं हि' - “ अत्रोत्तरमाह-यदि परिचितविषयस्य जन्तोः अव्यक्तशब्दज्ञानमुल्लङ्घ्य तस्मिन्नर्थावग्रहैकसमयमात्रे शब्दनिश्चयज्ञानं भवति तदा अन्यस्य कस्यचित् परिचिततरविषयस्य पटुतरावबोधस्य तस्मिन्नेव समये व्यक्तशब्दज्ञानमप्यतिक्रम्य 'शाङ्खोऽयं शब्द:' इत्यादिसङ्ख्यातीतविशेष ग्राहकमपि ज्ञानं भवदभिप्रायेण स्यात् । दृश्यन्ते 20 च पुरुषशक्तीनां तारतम्यविशेषाः । भवत्येव कस्यचित् प्रथमसमयेऽपि सुबहु विशेष ग्राहक मपि ज्ञानमिति चेत्; न; 'न उण जाणइ के वेस सद्दे' इत्यस्य सूत्रावयवस्य अगमकत्वप्रसङ्गात् । विमध्यमशक्तिपुरुषविषयमेतत् सूत्रमिति चेत्; न; अविशेषेण उक्तत्वात् सर्वविशेषविषयत्वस्य च युक्त्यनुपपन्नत्वात् । नहि प्रकृष्टमतेरपि शब्दधर्मिणमगृहीत्वा उत्तरोत्तरबहुसुधर्मग्रहणसंभवोऽस्ति निराधार धर्माणामनुपपत्तेः । - विशेषा० बृ० गा० २६९.
25
पृ० ४. पं० ३१. ‘अन्ये तु आलोचना' – “विषयविषयिसन्निपातसमयानन्तरमाद्यग्रहणमवग्रहः । विषयविषयिसन्निपाते सति दर्शनं भवति तदनन्तरमर्थस्य ग्रहणमवग्रहः । " - सर्वार्थ० १. १५.
पृ० ५. पं० २. 'यत आलोचनम् ' - - " यदेतत् भवदुत्प्रेक्षितं सामान्यग्राहकमालोचनं तत् व्यञ्जनावग्रहात् पूर्वं वा भवेत्, पश्चाद्वा भवेत् स एव व्यञ्जनावग्रहोऽपि आलोचनं भवेत् ?, 30 इति त्रयी गतिः । किञ्चातः । " विशेषा० बृ० गा० २७४.
" पूर्व तत् नास्ति । कुतः ? | अर्थव्यञ्जनसम्बन्धाभावादिति । अर्थः- शब्दादिविषयभावेन परिणतद्रव्यसमूहः, व्यञ्जनं तु श्रोत्रादि, तयोः सम्बन्धः, तस्याभावात् । सति हि अर्थव्यञ्जन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org