________________
पृ० ४. पं० २१.] तात्पर्यसमहा वृत्तिः। इदं शब्दबुद्धिमात्रकं शब्दमात्रस्तोकविशेषावसायित्वात् स्तोकविशेषग्राहकम् , अतोऽपायो न भवति, किन्तु अवग्रह एवायम् । कः पुनस्तर्हि अपायः ! । 'शासोऽयं शब्दः' इत्यादिविशेषणविशिष्टं यज्ज्ञानं तदपायः बृहद्विशेषावसायित्वादिति । हन्त ! यदि यत् यत् स्तोकं तत् तत् नापायः, तर्हि निवृत्ता सांप्रतमपायज्ञानकथा, उत्तरोत्तरार्थग्रहणापेक्षया पूर्वपूर्वार्थविशेषावसायम्य स्तोकत्वात् । एवमुत्तरोत्तरविशेषग्राहिणामपि ज्ञानानां तदुत्तरोत्तरभेदापेक्षया 5 म्तोकत्वादपायत्वाभावो भावनीयः ।" -विशेषा• बृ० गा० २५५.
पृ० ४.५०.१६ 'किञ्च शब्दोऽयमिति'-"किञ्च, शब्दगतान्वयधर्मेषु रूपादिभ्यो व्यावृत्तौ च गृहीतायां 'शब्द एव' इति निश्चयज्ञानं युज्यते । तद्ग्रहणं च विमर्शमन्तरेण नोपपद्यते, विमर्शश्च ईहा, तम्मादीहामन्तरेण अयुक्तमेव 'शब्द एव' इति निश्चयज्ञानम् । अथ निश्चयकालात् पूर्वमीहित्वा भवतोऽपि 'शब्द एवायम्' इति ज्ञानमभिमतम् ; हन्त ! तर्हि 10 निश्चयज्ञानात् पूर्व असावीहा भवद्वचनतोऽपि सिद्धा।" -विशेषा• बृ० गा० २५७.
पृ० ४. पं० १८. 'सा च नागृहीते'-"नन्वीहायाः पूर्व किं तद् वस्तु प्रमात्रा गृहीतम् , यदीहमानस्य तस्य 'शब्द एवायम्' इति निश्चयज्ञानमुपजायते ? । नहि कश्चिद् वस्तुन्यगृहीतेऽकम्मात् प्रथमत एवेहां कुरुते ।" -विशेषा० ६० गा० २५८.
"ईहायाः पूर्व यत् सामान्यं गृह्यते तस्य तावद् ग्रहणकालेन भवितव्यम् । स चास्मद- 15 भ्युपगतसामयिकार्थावग्रहकालरूपो न भवति, अम्मदभ्युपगताङ्गीकारप्रसङ्गात् । किं तर्हि ? । अस्मदभ्युपगतार्थावग्रहात् पूर्वमेव भवदभिप्रायेण तस्य सामान्यस्य ग्रहणकालेन भवितव्यम् , पूर्व च तम्याऽस्मदभ्युपगतार्थावग्रहस्य व्यञ्जनकाल एव वर्तते । भवत्वेवम् , तथापि तत्र सामान्यार्थग्रहणं भविष्यति इत्याशझ्याह-स च व्यञ्जनकालः अर्थपरिशून्यः, न हि तत्र सामान्यरूपो विशेषरूपो वा कश्चनाप्यर्थः प्रतिभाति, तदा मनोरहितेन्द्रियमात्रव्यापारात् , तत्र चार्थप्रतिभासाऽ- 20 योगात् । तस्मात् पारिशेष्यात् अस्मदभ्युपगतार्थावग्रह एव सामान्यग्रहणम्, तदनन्तरं चान्वयव्यतिरेक धर्मपर्यालोचनरूपा ईहा, तदनन्तरं च 'शब्द एवायम्' इति निश्चयज्ञानमपायः ।" -विशेषा० बृ० गा० २५९.
पृ० ४. पं० १९. 'नन्वनन्तरम्'-"न उण जाणइ के वेस सद्देत्ति अस्मिन् नन्दिसूत्रे 'न पुनर्जानाति कोप्येष शाङ्खशामधन्यतरः शब्दः' इति विशेषस्यैवापरिज्ञानमुक्तम् । शब्दसामान्य- 25 मात्रग्रहणं तु अनुज्ञातमेव । शब्दसामान्ये गृहीत एव तद्विशेषमार्गणस्य युज्यमानत्वात् ।" -विशेषा. बृ. गा० २६०. __ पृ० ४. पं० २१. 'न; शब्दः शब्द'-"अत्रोचरमाह-सर्वत्रावग्रहस्वरूपं प्ररूपयन् 'शब्दः शब्दः' इति प्रज्ञापक एव वदति न तु तत्र ज्ञाने शब्दप्रतिभासोऽस्ति अन्यथा न समयमात्रे अर्थावग्रहकाले 'शब्दः' इति विशेषणं युक्तम्, आन्तर्मुहूर्तिकत्वात् शब्दनिश्चयम्य" | 30 -विशेषा• बृ० गा० २६१.
पृ० ४. पं० २१. 'अर्थावग्रहे'-"यदि तव गाढः श्रुतावष्टम्भः तदा तत्राप्येतत् भणितं यदुत प्रथममव्यक्तम्यैव शब्दोल्लेखरहितम्य शब्दमात्रस्य ग्रहणम् । केन पुनः सूत्रावयवेनेद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org