________________
४० जैनतर्कभाषायाः
[पृ०४. पं० ९रभ्य मन्वानमेव मनो भवति, अन्यथा अवध्यादिवत् तस्य प्रवृत्तिरेव न स्यात् । तस्मात् तस्यानुपलब्धिकालो नास्ति, तथा च न व्यञ्जनावग्रह इति स्थितम् ।" -विशेषा. वृ० गा० २४२,२४३.
पृ० ५. पं० ९. 'स्वरूप'-"ग्राह्यवस्तुनः सामान्य-विशेषात्मकत्वे सत्यप्यर्थावग्रहण सामान्यरूपमेवार्थ गृह्णाति, न विशेषरूपम् अर्थावग्रहस्यैकसामयिकत्वात् , समयेन च विशेष5 ग्रहणायोगादिति । सामान्यार्थश्च कश्चिद् ग्राम-नगर-वन-सेनादिशब्देन निर्देश्योऽपि भवति तव्यवच्छेदार्थमाह-स्वरूपनामादिकल्पनारहितम् , आदिशब्दात् जाति-क्रिया-गुण-द्रव्यपरिग्रहः । तत्र रूपरसाद्यर्थानां य आत्मीयचक्षुरादीन्द्रियगम्यः प्रतिनियतः स्वभावः तत् स्वरूपम् । रूपरसादिकस्तु तदभिधायको ध्वनि म । रूपत्व-रसत्वादिका तु जातिः । प्रीतिकरमिदं रूपं पुष्टि
करोऽयं रसः इत्यादिकस्तु शब्दः क्रियाप्रधानत्वात् क्रिया । कृष्ण-नीलादिकम्तु गुणः । पृथि10 व्यादिकं पुनर्द्रव्यम् । एषां स्वरूप-नाम-जात्यादीनां कल्पना अन्तर्जल्यारूषितज्ञानरूपा, तया रहितमेवार्थमर्थावग्रहेण गृह्णाति जीवः ।" -विशेषा० ० गा० २५२.
पृ०४. पं० १०. 'कथं तर्हि "यदि स्वरूपनामादिकल्पनारहितोऽर्थोऽर्थावग्रहस्य विषयः इत्येवं व्याख्यायते भवद्भिः तर्हि यन्नन्द्यध्ययनसूत्रे (सू० ३६.) प्रोक्तम्-'से जहा नामए केइ पुरिसे अव्वत्तं
सई सुणेज्जा तेणं सद्देत्ति उग्गहिए न उण जाणइ के वेस सद्दाइ ति' तदेतत् कथमविरोधेन नीयते । 15 अस्मिन्नन्दिसूत्रे अयमर्थः प्रतीयते-यथा तेन प्रतिपत्त्रा अर्थावग्रहेण शब्दोऽवगृहीतः इति । भवन्तस्तु शब्दाद्युलेखरहितं सर्वथाऽमुं प्रतिपादयन्ति ततः कथं न विरोधः ? ।" -विशेषा० बृ० गा०२५२.
पृ० ४. पं० ११. 'शब्दः' इति'-"अत्रोत्तरमाह-शब्दस्तेन अवगृहीतः' इति यदुक्तं तत्र 'शब्दः' इति सूत्रकारः प्रतिपादयति । अथवा शब्दमात्रं रूपरसादिविशेषव्यावृत्त्या अनवधारि
तत्वात् शब्दतयाऽनिश्चितं गृह्णाति इति एतावतांशेन 'शब्दस्तेन अवगृहीतः' इत्युच्यते न पुनः 20 शब्दबुद्ध्या 'शब्दोऽयम्' इत्यध्यवसायेन तच्छन्दवस्तु तेन अवगृहीतम् , शब्दोल्लेखस्य आन्त
च्हूर्तिकत्वात् , अर्थावग्रहस्य तु एकसामयिकत्वादसम्भव एवायमिति भावः । यदि पुनरर्थावग्रहे शब्दनिश्चयः स्यात् तदा अपाय एवासौ स्यात् नत्वावग्रहः निश्चयम्यापायरूपत्वात् ।" -विशेषा. वृ० गा० २५३.
पृ० ४. पं० १३. 'स्यान्मतम्'-"ननु प्रथमसमय एव रूपादिव्यपाहेन 'शब्दोऽयम्' 25 इति प्रत्ययोऽर्थावग्रहत्वेन अभ्युपगम्यताम् , शब्दमात्रत्वेन सामान्यत्वात् , उत्तरकालं तु 'प्रायो
माधुर्यादयः शङ्खशब्दधर्मा इह घटन्ते, न तु शार्ङ्गधर्माः खरकर्कशत्वादयः' इति विमर्शबुद्धिरीहा, तस्मात् 'शाल एवायं शब्दः' इति तद्विशेषस्त्वपायोऽस्तु ।" -विशेषा० ऋ० गा० २५४.
पृ० ४ पं० १५ 'मैवम् , अशब्द'-"यस्माद् न रूपादिरयम् , तेभ्यो व्यावृत्तत्वेन गृहीतत्वात् , अतो 'नाऽशब्दोऽयम्' इति निश्चीयते। यदि तु रूपादिभ्योऽपि व्यावृत्तिगृहीता न स्यात् , 30 तदा 'शब्दोऽयम्' इति निश्चयोऽपि न स्यादिति भावः । तस्मात् 'शब्दोऽयं नाऽशब्दः' इति विशेषप्रतिभास एवाऽयम् । तथा च सत्यस्याऽप्यपायप्रसङ्गतोऽवग्रहाभावप्रसङ्ग इति स्थितम् ।" -विशेषा० बृ० गा० २५४.
पृ० ४. पं० १६. 'स्तोकग्रहणम्'--"अथ परोऽवग्रहापाययोर्विषयविभागं दर्शयन्नाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org