________________
पृ० ४. पं० ४.]
तात्पर्यसमहा वृत्तिः। स्थितस्यापि स्वकाये स्वकायस्य वा हृदयादिकमतीव सन्निहितत्वादतिसम्बद्धं विचिन्तयतो मनसो योऽसौ ज्ञेयेन स्वकायस्थितहृदयादिना सम्बन्धः तत्प्राप्तिलक्षणः तस्मिन्नपि ज्ञेयसन्धे व्यञ्जनावग्रहः मनसः” युज्यत एव । -विशेषा० बृ० गा० २३९.
पृ० ४ पं० १. 'इति चेत् शृणु'--"तदेवं प्रकारद्वयेन मनसः परेण व्यञ्जनावग्रहे समर्थिते आचार्यः प्रथमपक्षे तावत् प्रतिविधानमाह-चिन्ताद्रव्यरूपं मनो न प्राथम् , किन्तु गृह्यते अवगम्यते 5 शब्दादिरर्थोऽनेन इति ग्रहणम् अर्थपरिच्छेदे करणम् इत्यर्थः । प्राचं तु मेरुशिखरादिकं मनसः सुप्रतीतमेव अतः कोऽवसरः तस्य करणभूतस्य मनोद्रव्यराशेः व्यञ्जनावग्रहे अधिकृते । न कोपि इत्यर्थः । ग्राह्यवस्तुग्रहणे हि व्यञ्जनावग्रहो भवति। न च मनोद्रव्याणि प्राद्यरूपतया गृह्यन्ते ।" -विशेषा. बृ० गा० २४०.
“या च मनसः प्राप्यकारिता प्रोक्ता सापि न युक्ता; स्वकायहृदयादिको हि मनसः स्वदेश 10 एव । यच्च यस्मिन् देशेऽवतिष्ठते तत् तेन सम्बद्धमेव भवति कस्तत्र विवादः । किं हि नाम तद्वस्त्वस्ति यदात्मदेशेनाऽसम्बद्धम् । एवं हि प्राप्यकारितायामिष्यमाणायां सर्वमपि ज्ञानं प्राप्यकार्येव, पारिशेष्याद् बाह्यार्थापेक्षयैव प्राप्यकारित्वाप्राप्यकारित्वचिन्ता युक्ता ।" -विशेषा• बृ० गा० २४१.
पृ० ४. पं० ४. 'क्षयोपशमपाटवेन'-"भवतु वा मनसः स्वकीयहृदयादिचिन्तायां 15 प्राप्यकारिता तथापि न तस्य व्यञ्जनावग्रहसंभवः इति दर्शयन्नाह-यस्मात् मनसः प्रथमसमय एव अर्थावग्रहः समुत्पद्यते न तु श्रोत्रादीन्द्रियस्येव प्रथमं व्यञ्जनावग्रहः, तस्य हि क्षयोपशमापाटधेन प्रथममर्थानुपलब्धिकालसम्भवात् युक्तो व्यञ्जनावग्रहः, मनसस्तु पटुक्षयोपशमत्वात् चक्षुरादीन्द्रियस्येव अर्थानुपलम्भकालस्यासंभवेन प्रथममेव अर्थावग्रह एव उपजायते । अत्र प्रयोगःइह यस्य ज्ञेयसंबन्धे सत्यप्यनुपलब्धिकालो नास्ति न तस्य व्यञ्जनावग्रहो दृष्टः, यथा चक्षुषः, 20 मास्ति चार्थ संबन्धे सत्यनुपलब्धिकालो मनसः, तस्माद न तस्य व्यञ्जनावग्रहः, यत्र तु अयमभ्युपगम्यते न तस्य ज्ञेयसंबन्धे सत्यनुपलब्धिकालासंभवः, यथा श्रोत्रस्येति व्यतिरेकः । तस्मादुक्तप्रकारेण मनसो न व्यजनावग्रहसम्भवः ।" -विशेषा० बृ० गा० २४१. .
पृ० १. पं० ४. 'श्रोत्रादीन्द्रिय'-"इदमुक्तं भवति-न केवलं मनसः केवलावस्थायां प्रथमम् अर्थावग्रह एव व्यापारः, किन्तु श्रोत्रादीन्द्रियोपयोगकालेपि तथैव, तथाहि-श्रोत्रादीन्द्रि- 25 योपयोगकाले व्याप्रियते मनः केवलमर्थावग्रहादेव आरभ्य, न तु व्यञ्जनावग्रहकाले । अर्थानवबोधस्वरूपो हि व्यञ्जनावग्रहः तदवबोधकारणमात्रत्वात् तस्य, मनस्तु अर्थावबोधरूपमेव 'मनुतेऽर्थान् मन्यन्ते अर्था अनेन इति वा मनः' इति सान्वर्थाभिधानाऽभिधेयत्वात् । किञ्च, यदि व्यञ्जनावग्रहकाले मनसो व्यापारः स्यात् तदा तस्यापि व्यन्जनावग्रहसद्भावादष्टाविंशतिभेदमिन्नता मतेर्विशीर्येत, तस्मात् प्रथमसमयादेव तस्यार्थग्रहणमेष्टव्यम् । यथा हि स्वाभिधेयानर्थान् 30 भाषमाणैव भाषा भवति, नान्यथा; यथा च स्वविषयभूतानानवबुध्यमानान्येवावध्यादिज्ञानान्यात्मलामं लभन्ते, अन्यथा तेषामप्रवृत्तिरेव स्यादिति, एवं स्वविषयभूतानर्थान् प्रथमसमयादा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org