________________
३८
जैनतर्क भाषायाः
[ पृ० ३. पं० २६
हृष्यन्तः, द्विषन्तो वा ततश्च दृष्टस्य निषेधुमशक्यत्वात् स्वमविज्ञानादपि नैतनिषेधं ब्रूमः । तर्हि किमुच्यते भवद्भिः । क्रिया - भोजनादिका तस्याः फलं तृप्त्यादिकं तत्पुनः स्वमविज्ञानाद् नास्त्येव, इति ब्रूमः ।' यदि ह्येतत् तृप्त्यादिकं भोजनादिक्रियाफलं स्वमविज्ञानाद्भवेत् तदा विषयप्राप्तिरूपा प्राप्यकारिता मनसो युज्येत, न चैतदस्ति, तथोपलम्भस्यैवाभावात् ।” 5 - विशेषा० बृ० गा. २२७.
पृ० ३. पं० २६. 'क्रियाफलमपि स्वप्ने' -“क्रियाफलं जाग्रदवस्थायामपि परो दर्शयन्नाह - यत्र व्यञ्जन (शुक्र) विसर्गः तत्र योषित्संगमेनापि भवितव्यम्, यथा वासभवनादौ, तथा च स्वमे, ततोऽत्रापि योषित्प्राप्त्या भवितव्यम् इति कथं न प्राप्यकारिता मनसः । " -विशेषा० बृ० गा० २२८.
“अथ योषित्संगमे साध्ये व्यन्जनविसर्गहेतोरनैकान्तिकतामुपदर्शयन्नाह - स्वप्ने योऽसौ व्यञ्ज10 नविसर्गः स तत्प्राप्तिमन्तरेणापि 'तां कामिनीमहं परिषजामि' इत्यादिस्वयमुत्प्रेक्षिततीव्राध्यवसायकृतो वेदितव्यः । जाग्रतोपि तीत्रमोहस्य प्रबलवेदोदययुक्तस्य कामिनीं स्मरतः दृढं ध्यायतः प्रत्यक्षामिव पश्यतो बुद्ध्या परिषजतः परिभुक्तामिव मन्यमानस्य यत् तीव्राध्यवसानं तस्मात् यथा व्यञ्जनविसर्गो भवति तथा स्वपि, अन्यथा तत्क्षण एव प्रबुद्धः संन्निहितां प्रियतमामुपलमेत तत्कृतानि च स्वप्नोपलब्धानि नखदन्तपदादीनि पश्येत् न चैवम् । ” – विशेषा० बृ० गा० २२९.
15
पृ० ३. पं० २७. 'ननु स्त्यानर्धि' - " ननु स्त्यानर्द्धिनिद्रोदये वर्तमानस्य द्विरददन्तोत्पानादिप्रवृत्तस्य स्वप्ने मनसः प्राप्यकारिता तत्पूर्वको व्यञ्जनावग्रहश्च सिद्ध्यति, तथाहि स तस्यामवस्थायां 'द्विरददन्तोत्पाटनादिकं सर्वमिदमहं स्वप्ने पश्यामि' इति मन्यते इत्ययं स्वप्नः, मनोविकल्पपूर्विकां च दशनाद्युत्पाटनक्रियामसौ करोति इति मनसः प्राप्यकारिता तत्पूर्वकश्च मनसो व्यञ्जनावग्रहो भवत्येव इत्याशङ्क्याह - स्त्यानगृद्धिनिद्रोदये पुनर्वर्त्तमानस्य जन्तोः मांस20 भक्षण - दशनोत्पाटनादि कुर्वतो गाढनिद्रोदयपरवशीभूतत्वेन स्वममिव मन्यमानस्य स्यात् व्यञ्जनावग्रहः, न वयं तत्र निषेद्धारः । सिद्धं तर्हि परस्य समीहितम् ; सिद्धयेत् यदि सा व्यञ्जनावग्रहता मनसो भवेत् । न पुनः सा तस्य । कस्य तर्हि सा ? । सा खलु प्राप्यकारिणां श्रवणरसनत्राणस्पर्शनानाम् । इदमुक्तं भवति स्त्यानर्द्धिनिद्रोदये प्रेक्षणकरङ्गभूम्यादौ गीतादिकं शृण्वतः श्रोत्रेन्द्रियस्य व्यञ्जनावग्रहो भवति । ” – विशेषा॰ वृ० गा० २३४.
25
पृ० ३. पं० २९. 'ननु च्यवमानो न जानाति ' - " यस्मात् कारणात् 'च्यवमानो न जानाति' इत्यादिवचनात् सर्वोपि च्छद्मस्थोपयोगोऽसङ्ख्येयैः समयैर्निर्दिष्टः सिद्धान्ते न तु एकव्यादिभिः । यस्माच्च तेषु उपयोगसम्बन्धिषु असङ्ख्येयेषु समयेषु सर्वेष्वपि प्रत्येकमनन्तानि मनोद्रव्याणि मनोवर्गणाभ्यो गृह्णाति जीवः, द्रव्याणि च तत्सम्बन्धो वा प्रागत्रैव भवद्भिर्व्यञ्जनमुक्तम् । तेन कारणेन तत् तादृशं द्रव्यं तत्सम्बन्धो वा व्यज्जनावग्रह इति युज्यते मनसः । यथाहि श्रोत्रा - 30 दीन्द्रियेण असङ्ख्येयान् समयान् यावद् गृह्यमाणानि शब्दादिपरिणतद्रव्याणि, तत्सम्बन्धो वा व्यञ्जनावग्रहः तथाऽत्रापि ।" विशेषा० बृ० मा २३७-८
“तदेवं विषयासंप्राप्तावपि भङ्म्यन्तरेण मनसो व्यञ्जनावग्रहः किल परेण समर्थितः साम्प्रतं विषयसंप्राप्त्यापि तस्य तं समर्थयन्नाह - शरीराद् अनिर्गतस्यापि मेर्वाद्यर्थमगतस्यापि स्वस्थान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org