SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ पृ० ३. पं० २४.] तात्पर्यसमहा वृत्तिः । न्नपि चिन्त्यमानविषयात् मनसः किल परो मन्यते, तस्य जीवात् कथञ्चिदव्यतिरिक्तत्वात् । ततश्चैवं मनसोऽनुग्रहोपघातयुक्तत्वात् तच्छून्यत्वलक्षणो हेतुरसिद्धः ।" -विशेषा. वृ० गा० २१९. ___ "तदेतत्सर्वं परस्याऽसम्बद्धभाषितमिवेति दर्शयन्नाह-मनस्त्वपरिणतानिष्टपुद्गलनिचयरूपं द्रव्यमनः अनिष्टचिन्ताप्रवर्त्तनेन जीवस्य देहदौर्बल्याद्यापत्त्या हृन्निरुद्धवायुवद् उपघातं जनयति, तदेव च शुभपुद्गलपिण्डरूपं तस्यानुकूलचिन्ताजनकत्वेन हर्षाद्यभिनिर्वृत्त्या भेषजवदनुग्रहं विधत्त 5 इति । अतो जीवस्यैतौ अनुग्रहोपघातौ द्रव्यमनः करोति ।" -विशेषा० ऋ० गा० २२०. पृ० ३. पं० २०. 'ननु यदि'--"ननु जाग्रदवस्थायां मा भद् मनसो विषयप्राप्तिः, स्वापावस्थायां तु भवत्वसौ अनुभवसिद्धत्वात्, तथाहि 'अमुत्र मेरुशिखरादिगतजिनायतनादौ मदीयं मनो गतम्' इति सुप्तैः स्वमेऽनुभूयत एव इत्याशक्य स्वप्नेऽपि मनसः प्राप्यकारितामपाकर्तुमाहइह 'मदीयं मनोऽमुत्र गतम्' इत्यादिरूपो यः सुप्तैरुपलभ्यते स्वप्नः, स यथोपलभ्यते न 10 तथारूप एव, तदुपलब्धस्य मनोमेरुगमनादिकस्यार्थस्यासत्यत्वात् । कथम् ? । यथा कदाचिदात्मीयं मनः स्वप्ने मेर्वादौ गतं कश्चित् पश्यति, तथा कोऽपि शरीरमात्मानमपि नन्दनतरुकुसुमावचयादि कुर्वन्तं तद्गतं पश्यति, न च तत् तथैव, इह स्थितैः सुप्तस्य तस्याऽत्रैव दर्शनात् , द्वयोश्चात्मनोरसम्भवात् , कुसुमपरिमलाद्यध्वजनितपरिश्रमाद्यनुग्रहोपघाताभावाच । -विशेषा• बृ० गा ०२२४. 15 पृ० ३. पं० २३. 'ननु स्वमानु'-"अत्र विबुद्धस्य सतस्तद्गतानुग्रहोपघातानुपलम्भादित्यस्य हेतोरसिद्धतोद्भावनार्थ परः प्राह-इह कस्यचित्पुरुषस्य स्वप्नोपलम्भानन्तरं विबुद्धस्य सतः स्फुटं दृश्यन्ते हर्षविषादादयः । तत्र'स्वमे दृष्टो मयाद्य त्रिभुवनमहितः पार्श्वनाथः शिशुत्वे द्वात्रिंशद्भिः सुरेन्द्ररहमहमिकया स्नाप्यमानः सुमेरौ । 20 तस्माद् मत्तोऽपि धन्यं नयनयुगमिदं येन साक्षात् स दृष्टो द्रष्टव्यो यो महीयान् परिहरति भयं देहिनां संस्मृतोऽपि ॥' इत्यादिस्वमानुभूतसुखरागलिङ्गं हर्षः, तथा'प्राकारत्रयतुङ्गन्तोरणमणिप्रेड्खत्मभाव्याहताः नष्टाः क्वापि रवेः करा द्रुततरं यस्यां प्रचण्डा अपि । 25 तां त्रैलोक्यगुरोः सुरेश्वरवतीमास्थायिकामेदिनी हा ! यावत् प्रविशामि तावदधमा निद्रा क्षयं मे गता ॥ इत्यादिकः स्वमानुभूतदुःखद्वेषलिङ्गं विषादः इति विबुद्धस्यानुग्रहोपघातानुपलम्भात् इत्यसिद्धो हेतुः ।" -विशेषा• बृ० गा० २२६. ___पृ० ३. पं० २४. 'दृश्येताम्' "अत्रोत्तरमाह-स्वमे सुखानुभवादिविषयं विज्ञानं स्वम- 30 विज्ञानं तस्मादुत्पद्यमाना हर्षविषादादयो न विरुद्धयन्ते - न तान् वयं निवारयामः जाग्दवस्थाविज्ञानहर्षादिवत् , तथाहि-दृश्यन्ते जाग्रदवस्थायां केचित् स्व[य]मुत्प्रेक्षितसुखानुभवादिज्ञानाद् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001070
Book TitleJain Tarka Bhasha
Original Sutra AuthorYashovijay Upadhyay
AuthorSukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
PublisherSaraswati Pustak Bhandar Ahmedabad
Publication Year1993
Total Pages110
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Nyay, P000, & P055
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy