________________
३. निःक्षेपपरिच्छेदः । तर्हि एकत्र संघित्सतोऽन्यत्र प्रच्यवते, एवं हि सति व्यवहारोऽपि स्थापनां किं नेच्छति । कुतः ? । असंग्रहिकनैगमसमानधर्मा व्यवहारनयोऽपि वर्तते, विशेषवादित्वात् । ततश्चषोऽपि स्थापनामिच्छेदेवेति, निषिद्धा चास्यापि त्वया। अथ परिपूर्णों नैगमः स्थापनामिच्छति न तु संग्रहिकोऽसंग्रहिको वेति भेदवान् , अतस्तदृष्टान्तात् संग्रहव्यवहारयोर्न स्थापनेच्छा साधयितुम् । अत्रोच्यते-तर्हि नैगमसमानधर्माणौ द्वावपि समुदितौ संग्रहव्यवहारौ युक्तावेव । इदमत्र हृदयम् -- तर्हि प्रत्येकं तयोरेकतरनिरपेक्षयोः स्थापनाभ्युपगमो मा भूदिति समुदितयोस्तयोः सम्पूर्णनैगमरूपत्वाद् तदभ्युपगमः केन वार्यते ?, अविभागस्थाद् नैगमात् प्रत्येकं तदेकैकताग्रहणात् इति ।-विशेषा० बृ० गा० २८५२-३.
__ पृ० २८. पं० १०. 'किंच संग्रहव्यवहार'--"इदमुक्तं भवति-यथा विभिन्नयोः संग्रहव्यवहारयो गमोऽन्तर्भूतः तथा स्थापनाभ्युपगमलक्षणं तन्मतमपि तयोरन्तर्भूतमेव । ततो भिन्नं भेदेन तौ तदिच्छत एव-स्थापनासामान्यं संग्रह इच्छति, स्थापनाविशेषांस्तु व्यवहार इत्येतदेव युक्तम् तदनिच्छा तु सर्वथाऽनयोन युक्तेति ।"-विशेषा• बृ• गा० २८५४.
पृ० २८. पं० १६. 'तत्र यद्यपि जीवस्य'-"चेतनावतोऽचेतनस्य वा द्रव्यस्य जीव इति नाम क्रियते स नामजीवः, यः काष्ठ-पुस्त-चित्रकर्मा-ऽक्षनिक्षेपादिषु स्थाप्यते जीव इति स स्थापनाजीवः देवताप्रतिकृतिवत् इन्द्रो रुद्रः स्कन्दो विष्णुरिति । द्रव्यजीव इति गुणपर्यायवियुक्तः प्रज्ञास्थापितोऽनादिपारिणामिकभावयुक्तो जीव इत्युच्यते। अथवा शून्योऽयं भङ्गः । यस्य हि अजीवस्य सतो भव्यं जीवत्वं स्यात् स द्रव्यजीवः स्यात् अनिष्टं चैतत् । भावतो जीवः औपशमिकक्षायिकक्षायोपशमिकौदयिकपारिणामिकभावयुक्ताः उपयोगलक्षणाः संसारिणो मुक्ताश्च द्विधा वक्ष्यन्ते।"
-तत्त्वार्थभा० १.५; तत्त्वार्थभा. वृ.१.५.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org