SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ पृ० ३. पं० ८. ] तात्पर्यसङ्ग्रहा वृत्तिः। वक्ष्यमाणवचनात्, प्रथमं शब्दाद्यवग्रहणकाले अवग्रहादयः समुपजायन्ते । एते च अश्रुतानुसारित्वात् मतिज्ञानम् । यस्तु तेष्वङ्गानङ्गप्रविष्टश्रुतभेदेषु श्रुतानुसारी ज्ञानविशेषः स श्रुतज्ञानम् । ततश्च अङ्गानङ्गप्रविष्टादिश्रुतभेदानां सामस्त्येन मतिज्ञानत्वाभावात्, ईहादिषु च मतिमेदेषु श्रुतानुसारित्वाभावेन श्रुतज्ञानत्वासम्भवात् नोभयलक्षणसङ्कीर्णता दोषोप्युपपद्यत इति सर्वं सुस्थम् । तस्मादवग्रहापेक्षया अनभिलापत्वात् इहाद्यपेक्षया तु साभिलापत्वात् साभिलापानभिलापं मतिज्ञा- 5 नम्, अश्रुतानुसारि च, सङ्केतकालप्रवृत्तस्य श्रुतग्रन्थसम्बन्धिनो वा शब्दस्य व्यवहारकाले अननुसरणात् । श्रुतज्ञानं तु साभिलापमेव श्रुतानुसार्येव च सङ्केतकालप्रवृत्तस्य श्रुतमन्थसम्बन्धिनो वा श्रुतस्य व्यवहारकाले अवश्यमनुसरणात् इति स्थितम् ।" - विशेषा० बृ० गा० १००. पृ० ३. पं० ३. 'व्यज्यते ' - “तत्र कदम्बकुसुमगोलकाऽऽकार मांसखण्डादिरूपाया अन्तनिर्वृत्तेः शब्दादिविषयपरिच्छेदहेतुः य शक्तिविशेषः, स उपकरणेन्द्रियम्, शब्दादिश्च श्रोत्रा - 10 दीन्द्रियाणां विषयः । आदिशब्दाद् रसगन्धस्पर्शपरिग्रहः तद्भावेन परिणतानि च तानि भाषावर्गणादिसम्बन्धीनि द्रव्याणि च शब्दादिपरिणतद्रव्याणि । उपकरणेन्द्रियं च शब्दादिपरिणतद्रव्याणि च तेषां परस्परं सम्बन्ध उपकरणेन्द्रियशब्दादिपरिणतद्रव्यसम्बन्धः - एष तावद् व्यञ्जनमुच्यते । अपरञ्च इन्द्रियेणापि अर्थस्य व्यज्यमानत्वात् तदपि व्यञ्जनमुच्यते । तथा, शब्दादिपरिणतद्रव्यनिकुरम्बमपि व्यज्यमानत्वात् व्यञ्जनमभिधीयते इति । एवमुपलक्षणव्याख्यानात् 15 त्रितयमपि यथोक्तं व्यञ्जनमवगन्तव्यम् । ततश्च इन्द्रियलक्षणेन व्यञ्जनेन शब्दादिपरिणतद्रव्यसम्बन्धस्वरूपस्य व्यञ्जनस्यावग्रहो व्यञ्जनावग्रहः, अथवा तेनैव व्यञ्जनेन शब्दादिपरिणत - द्रव्यात्मकानां व्यञ्जनानामवग्रहो व्यञ्जनावग्रह इति । उभयत्रापि एकस्य व्यञ्जनशब्दस्य लोपं कृत्वा समासः । " - विशेषा० बृ० गा० १९४. ३५ पृ० ३. पं० ६. 'अथ अज्ञानम् ' - “स व्यञ्जनावग्रहोऽज्ञानं ज्ञानं न भवति, यथा हि 20 बधिरादीनामुपकरणेन्द्रियस्य शब्दादिविषयद्रव्यैः सह सम्बन्धकाले न किमपि ज्ञानमनुभूयते, अननुभूयमानत्वाच्च तन्नास्ति, तथेहापीति भावः । अत्रोत्तरमाह-यस्य ज्ञानस्यान्ते तज्ज्ञेयवस्तूपादानात् तत एव ज्ञानमुपजायते तज्ज्ञानं दृष्टम्, यथार्थावग्रहपर्यन्ते तज्ज्ञेयवस्तूपादानत ईहा - सद्भावादर्थावग्रहो ज्ञानम्, जायते च व्यञ्जनावग्रहस्य पर्यन्ते तज्ज्ञेयवस्तूपादानात् तत एवार्थावग्रहज्ञानम्, तस्माद् व्यञ्जनावग्रहो ज्ञानम् । " - विशेषा० बृ० गा० १९५. Jain Education International पृ० ३. पं० ८. “तदेवं व्यञ्जनावग्रहे यद्यपि ज्ञानं नानुभूयते तथापि ज्ञानकारणत्वादसौ ज्ञानम्, इत्येवं व्यञ्जनावग्रहे ज्ञानाभावमभ्युपगम्योक्तम् । साम्प्रतं ज्ञानाभावोऽपि तत्रासिद्ध एवेति दर्शयन्नाह" - ' तत्कालेऽपि ' - " तस्य व्यञ्जनसम्बन्धस्य कालेपि तत्रानुपहतेन्द्रियसम्बन्धिनि व्यञ्जनावग्रहे ज्ञानमस्ति केवलं एकतेजोऽवयवप्रकाशवत् तनु - अतीवाल्पमिति; अतोऽव्यक्तं स्वसंवेदनेनापि न व्यज्यते । बधिरादीनां पुनः स व्यञ्जनावग्रहो ज्ञानं न भवतीत्यत्राविप्रति- 30 पत्तिरेव, अव्यक्तस्यापि च ज्ञानस्याभावात् । " - विशेषा० बृ० गा० १९६. “परः सासूयमाह - ननु कथं ज्ञानम्, अव्यक्तं च इत्युच्यते ?, तमः प्रकाशाद्य भिधानवद् विरुद्धत्वाद् नेदं वक्तुं युज्यते इति भावः । अत्रोत्तरम् - सुप्तमत्तमूच्छितादीनां सूक्ष्मबोधवदव्यकं For Private & Personal Use Only 25 www.jainelibrary.org
SR No.001070
Book TitleJain Tarka Bhasha
Original Sutra AuthorYashovijay Upadhyay
AuthorSukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
PublisherSaraswati Pustak Bhandar Ahmedabad
Publication Year1993
Total Pages110
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Nyay, P000, & P055
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy