________________
३४
जैनतर्कभाषायाः
[पृ० २. पं० १७पृ० २. पं० १७. 'किञ्च, असिद्ध'-"प्रयोमः-यदिन्द्रियमनोनिमित्तं ज्ञानं तत् परोक्षम् , संशयविपर्ययानध्यवसायानां तत्र सम्भवात्, इन्द्रियमनोनिमित्ताऽसिद्धाऽनैकान्तिकविरुद्धानुमानाभासवत् इति प्रथमः प्रयोगः । यदिन्द्रियमनोनिमित्तं ज्ञानं तत् परोक्षम्, तत्र निश्चयसम्भवात् ,
धूमादेरग्न्याद्यनुमानवत् इति द्वितीयः । ननु निश्चयसम्भवलक्षण हेतुः अवध्यादिष्वपि वर्तत 5 इत्यनैकान्तिक इति चेत् ; नैवम् ; अभिप्रायापरिज्ञानात्; सकेतस्मरणादिपूर्वको हि निश्चयोऽत्र विवक्षितः; तादृशश्चायं अवध्यादिषु नास्ति ज्ञानविशेषत्वात्तेषाम् इत्यदोषः। -विशेषा० बृ० गा० ९३.
पृ० २. पं० २१. 'यद्यपि इन्द्रियज'-"इन्द्रियाणि चक्षुरादीनि तानि मानसबलाधानसहितानि प्राधान्येन निबन्धनमस्य इति इन्द्रियनिबन्धनम् ।" -स्या० र. पृ० ३४४.
पृ० २. पं० २३. 'श्रुतानुसारित्वं'-"श्रूयते इति श्रुतं द्रव्यश्रुतरूपं शब्द इत्यर्थः, स च 10 सङ्केतषियपरोपदेशरूपः श्रुतग्रन्थात्मकश्चैह गृह्यते तदनुसारेणैव यदुत्पद्यते तत् श्रुतज्ञानम्
नान्यत् । इदमुक्तं भवति-सङ्केतकालप्रवृत्तं श्रुतग्रन्थसम्बन्धिनं वा घटादिशब्दमनुसृत्य वाच्यवाचकभावेन संयोज्य 'घटो घटः' इत्यन्त ल्पाद्याकारमन्तःशब्दोल्लेखान्वितमिन्द्रियादिनिमितं यज्ज्ञानमुदेति तत् श्रुतज्ञानमिति । शेषम् इन्द्रियमनोनिमित्तम् अश्रुतानुसारेण यदवग्रहादिज्ञानं
तत् मतिज्ञानम् इत्यर्थः ।" -विशेषा• बृ० गा० १.. 15 पृ० २. पं० २५. 'नन्वेवम्'-"अत्राह कश्चित्-ननु यदि शब्दोल्लेखसहितं श्रुतज्ञानमिष्यते
शेषं तु मतिज्ञानं तदा वक्ष्यमाणस्वरूपः अवग्रह एव मतिज्ञानं स्यात् न पुनः ईहापायादयः तेषां , शब्दोल्लेखसहित्वात्, मतिज्ञानभेदत्वेन चैते प्रसिद्धाः, तत्कथं श्रुतज्ञानलक्षणस्य नातिव्याप्तिदोषः । अपरञ्च, अङ्गानगप्रविष्टादिषु 'अक्खरसन्नी सम्मं साईयं खलु सपज्जवसियं च' [आव. नि. १९]
इत्यादिषु च श्रुतभेदेषु मतिज्ञानभेदस्वरूपाणामवग्रहेहादीनां सद्भावात् सर्वस्यापि तस्य मति20 ज्ञानत्वप्रसङ्गात् मतिज्ञानभेदानां चेहापायादीनां सामिलापत्वेन श्रुतज्ञानत्वप्राप्तेः उभयलक्षणसङ्की
र्णतादोषश्च स्यात् । तदयुक्तम् ; यतो यद्यपीहादयः सामिलापाः तथापि न तेषां श्रुतरूपता, श्रुतानुसारिण एव सामिलापज्ञानस्य श्रुतत्वात् । अथ अवग्रहादयः श्रुतनिश्रिता एव सिद्धान्ते मोक्ताः युक्तितोऽपि चेहादिषु शब्दामिलापः सङ्केतकालाद्याकर्णितशब्दानुसरणमन्तरेण न सङ्ग
च्छते, अतः कथं न तेषां श्रुतानुसारित्वम् । तदयुक्तम् । पूर्व श्रुतपरिकर्मितमतेरेवैते समुपजायन्त 25 इति श्रुतनिश्रिता उच्यन्ते, न पुनर्व्यवहारकाले श्रुतानुसारित्वमेतेष्वस्ति । सङ्केतकालाद्याकर्णित
शब्दपरिकर्मितबुद्धीनां व्यवहारकाले तदनुसरणमन्तरेणापि विकल्पपरम्परापूर्वकविविधवचनप्रवृत्तिदर्शनात् । न हि पूर्वप्रवृत्तसङ्केताः अधीतश्रुतग्रन्थाश्च व्यवहारकाले प्रतिविकल्पन्ते- 'एतच्छब्दवाच्यत्वेनैतत् पूर्व मयाऽवगतम्' इत्येवंरूपं सङ्केतम् , तथा, 'अमुकस्मिन् ग्रन्थे एक
दित्थमभिहितम्'इत्येवं श्रुतग्रन्थं चानुसरन्तो दृश्यन्ते,अभ्यासपाटववशात् तदनुसरणमन्तरेणाप्य30 नवरत विकल्पभाषणप्रवृत्तेः । यत्र तु श्रुतानुसारित्वं तत्र श्रुतरूपताऽस्माभिरपि न निषिध्यते।
तस्मात् श्रुतानुसारित्वाभावेन श्रुतत्वाभावादीहापायधारणानां सामस्त्येन मतिज्ञानत्वात् न मतिज्ञानलक्षणस्याव्याप्तिदोषः, श्रुतरूपतायाश्च श्रुतानुसारिष्वेव सामिलापज्ञानविशेषेषु भावान श्रुत- | ज्ञानलक्षणस्यातिव्याप्तिकृतो दोषः । अपरं च, अङ्गानङ्गप्रविष्टादिश्रुतभेदेषु मतिपूर्वमेव श्रुतमिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org