________________
पृ० २. पं० १५.]
तात्पयसमहा वृत्तिः । विदितं फलं प्रमाणाभिन्नं वदतमं करणज्ञानं प्रमाणं कथमप्रत्यक्षं नाम ? । न च येनैव रूपेण तत्प्रमाणं तेनैव फलं येन विरोधः । किं तर्हि ? । साधकतमत्वेन प्रमाणं साध्यत्वेन फलम् । साधकतमत्वं तु परिच्छेदनशक्तिरिति प्रत्यक्षफलज्ञानात्मकत्वात् प्रत्यक्षं शक्तिरूपेण परोक्षम् । ततः स्यात् प्रत्यक्षं स्यादप्रत्यक्षम् इत्यनेकान्तसिद्धिः । यदातु प्रमाणाद्भिन्नं फलं हानोपादानोपेक्षाज्ञानलक्षणं तदा स्वार्थव्यवसायात्मकं करणसाधनं ज्ञानं प्रत्यक्षं सिद्धमेवेति न परमतप्रवेशः तच्छ- 5 तेरपि सूक्ष्मायाः परोक्षत्वात् । तदेतेन सर्व कादिकारकत्वेन परिणतं वस्तु कस्यचित् प्रत्यक्षं परोक्षं च कर्नादिशक्तिरूपतयोक्तं प्रत्येयम् । ततो ज्ञानशक्तिरपि च करणत्वेन निर्दिष्टा न स्वागमेन युक्त्या च विरुद्धा इति सूक्तम् ।" -तत्त्वार्थश्लोकवा० पृ. ६०.
विद्यानन्दीयं मतं पराकर्तुकामेन श्रीमता देवसूरिणा तदीयपक्षोपन्यासपुरःसरमित्थं निराकरणं कृतम्-"केचित्तु-ततोऽर्थग्रहणाकारा...' इति परमार्थतो भावेन्द्रियस्यैव अर्थग्रहणशक्तिलक्षणस्य 10 साधकतमतया करणताध्यवसायादिति च ब्रुवाणा लब्धीन्द्रियं प्रमाण समगिरन्त; तन्न समगस्त; उपयोगात्मना करणेन लब्धेः फले व्यवधानात् , सन्निकर्षादिवदुपचारत एव प्रमाणतोपपत्तेः । ___ अथ न जैनानामेकान्तेन किञ्चित् प्रत्यक्षमप्रत्यक्ष वा, तदिह द्रव्यार्थतः प्रत्यक्षा ज्ञानशक्तिः पर्यायार्थतस्तु परोक्षा । अयमर्थः-स्वपरपरिच्छित्तिरूपात् फलात् कथञ्चिदपृथग्भूते आत्मनि परिच्छिन्ने तथाभूता तज्जननशक्तिरपि परिच्छिनैवेति । नन्वेवं आत्मवर्तिनामतीतानागतवर्तमानपाया- 15 णामशेषाणामपि द्रव्यार्थतः प्रत्यक्षत्वात् यथा ज्ञानं स्वसंविदितं एवं तेऽपि स्वसंविदिताः किन्न स्युः । किच, यदि द्रव्यार्थतः प्रत्यक्षत्वात् स्वसंविदिता ज्ञानशक्तिः तदाऽहं घटज्ञानेन घटं जानामि इति करणोल्लेखो न स्यात् । नहि कलशसमाकलनवेललयां द्रव्यार्थतः प्रत्यक्षत्वेऽपि प्रतिक्षणपरिणामिनामतीतानागतानां च कुशूलकपालादीनामुल्लेखोऽस्ति ।" -स्या. र. पृ० ५३.
पृ० २. पं० १०. 'यतो व्युत्पत्ति'-"अक्षाश्रितत्वं च व्युत्पत्तिनिमित्तं शब्दस्य, न तु - 20 प्रवृत्तिनिमित्तम् । अनेन तु अक्षाश्रितत्वेनैकार्थसमवेतमर्थसाक्षात्कारित्वं, लक्ष्यते । तदेव शब्दस्य प्रवृत्तिनिमित्तम् । ततश्च यत्किञ्चिदर्थस्य साक्षात्कारि ज्ञानं तत् प्रत्यक्षमुच्यते । यदि त्वक्षाश्रितत्वमेव प्रवृत्तिनिमित्तं स्यादिन्द्रियज्ञानमेव प्रत्यक्षमुच्येत न मानसादि । यथा गच्छतीति गौरिति गमनक्रियायां व्युत्पादितोऽपि गोशब्दो गमनक्रियोपलक्षितमेकार्थसमवेतं गोत्वं प्रवृत्तिनिमित्तीकरोति तथा च गच्छत्यगच्छति च गवि गोशब्दः सिद्धो भवति ।" -न्यायवि० टी० १. ३. । स्या. र. 25 पृ० २६०. पृ० २. पं० ११. 'स्पष्टता'
"अनुमानापतिरेकेण विशेषप्रतिभासनम् ।
तद्वैशचं मतं बुद्धरौशषमतः परम् ।।" -लघीय० १. ४, पृ० २. पं० १५. 'तद्धीन्द्रिया'-"इदमुकं भवति-अपौगलिकत्वादमूर्तो जीवः पौगलि- 30 कत्वात् तु मूर्खानि द्रव्येन्द्रियमनासि, अमूर्ताच मूर्त पृथग्भूतम् , ततस्तेभ्यः पौरालिकेन्द्रिय-मनोभ्यो यन्मतिश्रुतलक्षणं ज्ञानमुपजायते तद् धूमादेरग्न्यादिज्ञानवत् परनिमित्तत्वात् परोक्षम् ।" --विशेषा..गा. ९..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org