________________
३२
उच्यते
जैनतर्क भाषायाः
Jain Education International
स्यादभेदात् प्रमाणस्य स्वार्थव्यवसितेः फलात् । नैव ते सर्वथा कश्चिद् दूषणक्षण ईक्ष्यते ॥"
पृ० १. पं० ११. 'स्वव्यवसायित्वात्' - ननु देवसूरिकृतं 'स्वपर' इत्यादिसूत्रं तदीयां 5 च रत्नाकरव्याख्यामवलम्ब्य प्रमाणस्य फलं दर्शयता श्रीमता उपाध्यायेन 'स्वार्थव्यवसितेरेव तत्फलत्वात्' इत्युक्तम् ; अस्य च उक्तसूत्र - तदीयव्याख्यानुसारी स्वपरव्यवसितिरेवार्थः फलत्वेन पर्यवस्यति । तथा च अत्रत्यः स्वमात्रव्यवसिते: फलत्व प्रदर्शनपरः आशङ्काग्रन्थः कथं सङ्गच्छेत ?, यतो हि 'स्वपरव्यवसायि' इत्यादिसूत्रव्याख्यायां अग्रेतने च 'स्वपरव्यवसितिक्रियारूपाऽज्ञाननिवृत्त्याख्यं फलं तु' इत्यादिसूत्रे [प्र. न. ६. १६] स्वयं देवसूरिणा स्वपरव्यवसितेरेव फलस्वस्य 10 प्रतिपादनात् । किञ्च, प्रमाणफलस्वरूपविषयको जैनतर्कसिद्धान्तोऽपि इदानीं यावन्निर्विवादं स्वपरप्रकाशयोरेव फलत्वं प्रतिपादयन् सर्वत्र दृश्यते इति तं सिद्धान्तमपि प्रस्तुतशङ्काग्रन्थः कथं न बाधेत इति चेत्; अवेहि; यद्यपि स्वपरव्यवसितेरेव प्रमाणफलत्वं निर्विवादं जैनतर्कसम्मतं तथापि अत्र ग्रन्थकृता विज्ञानवादीय बौद्धपरम्परायां लब्धप्रतिष्ठः स्वमात्र संवेदनस्य प्रमाणफलत्वसिद्धान्तः, इदानीं यावत् जैनतर्कपरम्परायां अलब्धप्रतिष्ठोऽपि औचित्यं समीक्ष्य सनि15 वेशितः । तथा च ग्रन्थकर्त्तस्तात्पर्यमत्र इत्थं भाति - यद्यपि ज्ञानं स्वं परं चोभयं प्रकाशयति तथापि तदीयं स्वमात्रप्रकाशनं फलकोटौ निपतति । स्वमात्रप्रकाशनस्य फलत्वोक्तावपि वस्तुतः ज्ञानात्मक स्वप्रकाशनस्य ' विषयनिरूप्यं हि ज्ञानम्, ज्ञानवित्तिवेद्यो विषयः' [मुक्ता० का० १३६. ] इति सिद्धान्तानुसारेण स्वविषयविषयकत्वान्यथानुपपत्त्या परप्रकाशनगर्भितत्वमपि पर्यवस्यति इति परव्यवसितेः अर्थादेव लभ्यत्वेन गौरवादेव स्वपरोभयव्यवसितेः साक्षात् फलत्वेनाभिधानं 20 ग्रन्थकृता नादृतम् । प्रमाणफलयोरभेदपक्षं समाश्रित्य च प्रमाणस्य स्वपरव्यवसायित्वोक्तिः फलस्य च स्वपरव्यवसितित्वोक्तिः सङ्गमिता । ग्रन्थकर्तुरयमभिप्रायः अप्रेतनेन 'ज्ञानाभावनिवृत्तिस्त्वर्थज्ञातताव्यवहारनिबन्धनस्वव्यवसितिपर्यवसितैव सामान्यतः फलमिति द्रष्टव्यम्' [ पृ० ११. पं० २६ ] इति ग्रन्थेनापि स्फुटीभवति ।
[ पृ० १. पं० ११
पृ० १. पं० १६. 'ततोऽर्थ' - श्रीमता विद्यानन्देन स्वकीयस्य शक्तिकरणत्वपक्षस्य 25 तात्पर्य प्रस्तुतपद्यव्याख्यायामित्थं प्रकटीकृतम् - " नहि अन्तरङ्ग बहिरङ्गार्थग्रहणरूपात्मनो ज्ञानशक्तिः करणत्वेन कथञ्चिन्निर्दिश्यमाना विरुध्यते, सर्वथा शक्तितद्वतोर्भेदस्य प्रतिहननात् । ननु च ज्ञानशक्तिर्यदि प्रत्यक्षा तदा सकलपदार्थशक्तेः प्रत्यक्षत्वप्रसङ्गात् अनुमेयत्वविरोधः । यदि पुनरप्रत्यक्षा ज्ञानशक्तिस्तदा तस्याः करणज्ञानत्वे प्राभाकरमतसिद्धिः, तत्र करणज्ञानस्य परोक्षत्वव्यवस्थिते: फलज्ञानस्य प्रत्यक्षत्वोपगमात् । ततः प्रत्यक्षकरणज्ञानमिच्छतां न तच्छक्तिरूप30 मेषितव्यं स्याद्वादिभिः इति चेत्; तदनुपपन्नम् ; एकान्ततोऽस्मदादिप्रत्यक्षत्वस्य करणज्ञाने अन्यत्र वा वस्तुनि प्रतीतिविरुद्धत्वेनाऽनभ्युपगमात् । द्रव्यार्थतो हि ज्ञानं अस्मदादेः प्रत्यक्षम्, प्रतिक्षणपरिणामशक्त्यादिपर्यायार्थतस्तु न प्रत्यक्षम् । तत्र स्वार्थव्यसायात्मकं ज्ञानं स्वयं
For Private & Personal Use Only
www.jainelibrary.org