________________
जैनतर्कभाषायाः
॥तात्पर्यसङ्ग्रहा वृत्तिः॥
न्यायविशारदं नत्वा यशोविजयवाग्मिनम् ।
तन्यते तर्कभाषाया वृत्तिस्तात्पर्यसङ्ग्रहा ॥ पृ० १. पं० ६. यद्यपि सन्मतिटीकाकृता अभयदेवेन द्वितीयकाण्डप्रथमगाथाव्याख्यायां दर्शनस्यापि प्रामाण्यं स्पष्टमुक्तम् , यद्यपि च स्वयं ग्रन्थकारेणापि [पृ० ५. पं० १०.] सामान्यमात्रग्राहिणो नैश्वयिकावग्रहत्वं वदता दर्शनस्य मतिज्ञानोपयोगान्तर्गतत्वेनैव प्रामाण्यं सूचितं 5 भाति तथापि माणिक्यनन्दि-वादिदेवसूरिप्रभृतिभिर्जेनतार्किकैः यत् दर्शनस्य प्रमाणकोटेर्बहिर्भावसमर्थनं कृतं तदभिप्रेत्य ग्रन्थकृता अत्र दर्शनस्य प्रमाणालक्ष्यत्वं मन्वानेन 'दर्शनेऽतिव्याप्तिवारणाय' इत्याधुक्तम् ।
पृ० १. पं० ७. 'मीमांसकादीनाम्'--कुमारिलप्रभृतयो हि ज्ञानमात्रस्य परोक्षत्वेन परप्रकाश्यत्वं मन्वानाः अर्थप्राकट्याख्येन तत्फलेनैव हेतुना तदनुमितिमङ्गीकुर्वाणाः तस्य स्वप्रका- 10 शत्वं निरस्यन्तीति ते परोक्षबुद्धिवादिनोऽभिधीयन्ते ।
पृ० १. पं० ८. जैनमते हि सर्वस्यापि ज्ञानस्य स्वपरप्रकाशत्वनियमात् 'स्वपर' इति विशेषणाऽभावेऽपि स्वपरव्यवसायित्वरूपस्य अर्थस्य सिद्धान्तबलेनैव लाभात् 'स्वपर'इति विशेषणं कस्मात् ?, इत्याशकां निवारयितुमुक्तम्-'स्वरूपविशेषणार्थम्' इत्यादि । तथा च नेदं विशेषणं किञ्चिद्यावर्तकतया लक्षणे निवेशितं येन व्यावृत्त्यभावप्रयुक्ता तद्वैयर्थ्याशका स्यात् । किन्तु स्वरूप- 15 मात्रनिदर्शनतात्पर्येणैव तत् तत्र निवेशितम् । न च स्वरूपविशेषणे व्यावृत्तिलाभप्रत्याशा । विशेष्यस्वरूपविषयकबोधजननरूपं तत्फलं तु अत्रापि निर्बाधमिति नैतस्य विशेषणस्य वैयर्थ्याशका ।
पृ० १. पं० ९. 'ननु यद्येवम्'-प्रस्तुतस्य शङ्कासमाधानग्रन्थस्य मूलं स्याद्वादरलाकरे [पृ० ५२.] इत्थं दृश्यते
"ज्ञानस्याऽथ प्रमाणत्वे फलत्वं कस्य कथ्यते । स्वार्थसंवित्तिरस्त्येव ननु किन विलोक्यते ॥ स्यात्फलं स्वार्थसंवित्तिर्यदि नाम तदा कथम् । स्वपरव्यवसायित्वं प्रमाणे घटनामियात् १ ॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org