________________
२८
जैनतर्कभाषा। नेच्छेत् १ । प्रत्युत सुतरां तदम्युपगमो न्याय्यः । इन्द्रमूर्तिलक्षणद्रव्य-विशिष्टतदाकाररूपस्थापनयोरिन्द्रपर्यायरूपे भावे तादात्म्यसंबन्धेनावस्थितत्वात्तत्र वाव्यवाचकभावसंबन्धेन संबद्धानानोऽपेक्षया समिहिततरकारणत्वात् । सङ्ग्रहव्यवहारो स्थापना. वर्जास्त्रीनिक्षेपानिच्छत इति केचित् तभानवद्यं यतः संग्रहिकोऽसंग्रहिकोऽनर्पितमेदः परि5 पूर्णो वा नैगमस्तावत् स्थापनामिच्छतीत्यवश्यमभ्युपेयम् , सहव्यवहारयोरन्यत्र
द्रव्यार्थिके स्थापनाम्युपगमावर्जनात् । तत्रायपक्षे संग्रहे स्थापनाभ्युपगमप्रसङ्गा, संग्रहनयमतस्य संग्रहिकनैगममताविशेषात् । द्वितीये व्यवहारे तदम्युपगमप्रसस्ता, तन्मतस्य व्यवहारमतादविशेषात् । तृतीये च निरपेक्षयोः संग्रहव्यवहारयोः
स्थापनानम्युपगमोपपत्तावपि समुदितयोः संपूर्णनैगमरूपत्वाचदभ्युपगमस्य दुर्निवारत्वम्, 10 अविभागस्थागमात्प्रत्येकं तदेकैकमागग्रहणात् । किञ्च, सहव्यवहारयो गमान्त -
वात्स्थापनाभ्युपगमलक्षणं तन्मतमपि तत्रान्तर्भूतमेव, उभयधर्मलक्षणस्य विषयस्य प्रत्येकमप्रवेशेऽपि स्थापनालक्षणस्यैकधर्मस्य प्रवेशस्य सूपपादत्वात् , स्थापनासामान्यतद्विशेषाभ्युपगममात्रेणैव सङ्ग्रहव्यवहारयोर्मेदोपपत्तेरिति यथागमं भावनीयम् । एतैश्च नामादिनिक्षेपैर्जीवादयः पदार्था निक्षेप्याः ।।
[३. जीवविषये निःक्षेपाः ।। ६९. तत्र यद्यपि यस्य जीवस्याजीवस्य वा जीव इति नाम क्रियते स नामजीवः, देवतादिप्रतिमा च स्थापनाजीवः, औपशमिकादिभावशाली च भावजीव इति जीवविषयं निक्षेपत्रयं सम्भवति, न तु द्रव्यनिक्षेपः । अयं हि तदा सम्भवेत् , यद्यजीवः
सत्रायत्यां जीवोऽभविष्यत् , यथाऽदेवः समायत्या देवो भविष्यत्(न्) द्रव्यदेव 20 इति । न चैतदिष्टं सिद्धान्ते, यतो जीवत्वमनादिनिधनः पारिणामिको भाव इष्यत
इति । तथापि गुणपर्यायवियुक्तत्वेन बुद्धथा कल्पितोऽनादिपारिणामिकभावयुक्तो द्रव्यजीवः, शून्योऽयं भङ्ग इति यावत् , सतां गुणपयोयाणां बुद्धथापनयस्य कर्तुमशक्यत्वात् । न खलु ज्ञानायत्तार्थपरिणतिः, किन्तु अर्थो यथा यथा विपरिणमते
तथा तथा ज्ञानं प्रादुरस्तीति । न चैवं नामादिचतुष्टयस्य व्यापितामङ्गः, यतः 25 प्रायः सर्वपदार्थेष्वन्येषु तत् सम्भवति । यद्यत्रैकस्मिन्न सम्भवति नैतावता भवत्य
व्यापितेति वृद्धाः । जीवशब्दार्थज्ञस्तत्रानुपयुक्तो द्रव्यजीव इत्यप्याहुः । अपरे तु वदन्ति-अहमेव मनुष्यजीवो [द्रव्यजीवो]ऽभिधातव्यः उत्तरं देवजीवमप्रादुर्भूतमाश्रित्य अहं हि तस्योत्पित्सोर्देवजीवस्य कारणं भवामि, यतश्चाहमेव तेन देवजीवभावेन भवि. ज्यामि, अतोऽहमधुना द्रव्यजीव इति । एतत्कथितं तैर्भवति-पूर्वः पूर्वो जीवः
15
१ तुलना-विशेषा० ऋ० गा० २८४७ । २-०ऽसङ्घाहिको-प्र. व०।३ सङ्क्राहिके नेग०-सं० । ४ तुलना-विशेषा. गा० २८५५। ५५० प्रती प्रथमलिखितं 'मनुष्यजीवो द्रव्यजीवोऽभि.' इति पाठ परिमार्य 'मनुष्यजीवोऽभि०-' इत्यादि कृतं दृश्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org