________________
३. निःक्षेपपरिच्छेदः ।
न्तिकस्य भावस्याभ्यर्हितत्वमनुमन्यन्ते प्रवचन वृद्धः । एतच्च भिन्नवस्तुगतनामाद्यपेक्षयोक्तम् । अभिभवस्तुगतानां तु नामादीनां भावाविना भूतत्वादेव वस्तुत्वम्, सर्वस्य वस्तुनः स्वाभिधानस्य नामरूपत्वात्, स्वाकारस्य स्थापनारूपत्वात् कारणतायाश्च द्रव्यरूपत्वात्, कार्यापत्रस्य च स्वस्य भावरूपत्वात् । यदि च घटनाम घटधर्मो न भवेत्तदा ततस्तत्संप्रत्ययो न स्यात्, तस्य स्वापृथग्भूतसंबन्धनिमित्तकत्वादिति सर्व नामा- 5 त्मकमेष्टव्यम् | साकारं च सर्वं मति-शब्द- घटादीनामाकारवच्वात् नीलाकारसंस्थानविशेषादीनामाकाराणामनुभवसिद्धत्वात् । द्रव्यात्मकं च सर्व उत्फणविफण कुण्डलिताकारसमन्वितसर्पवत् विकाररहितस्याविर्भावतिरोभाव मात्र परिणामस्य द्रव्यस्यैव सर्वत्र सर्वदानुभवात् । भावात्मकं च सर्वं परापरकार्यक्षणसन्तानात्मकस्यैव तस्यानुभवादिति चतुष्टयात्मकं जगदिति नामादिनय समुदयवादः ।
"
[ २. निःक्षेपाणां नयेषु योजना । ]
३८. अथ नामादिनिक्षेपा नयैः सह योज्यन्ते । तत्र नामादित्रयं द्रव्यास्तिकनयस्यैवाभिमतम्, पर्यायास्तिकनयस्य च भाव एव । आद्यस्य भेदौ संग्रहव्यवहारौ, नैगमस्य यथाक्रमं सामान्यग्राहिणो विशेषग्राहिणश्व अनयोरेवान्तर्भावात् । ऋजुसूत्रादय चत्वारो द्वितीयस्य मेदा इत्याचार्यसिद्धसेनमतानुसारेणाभिहितं जिनभद्रग - 15 णिक्षमाश्रमणपूज्यपादैः
"नामाइतियं दव्वट्टियस्य भावो अ पज्जवणयस्स । संगहववहारा पढमगस्स सेसा उ इयरस्स ॥ [ ७५ ] इत्यादिना विशेषावश्यके । स्वमते तु नमस्कारनिक्षेपविचारस्थले
नामभाव
"भावं चिप सद्गुणया सेसा इच्छन्ति सव्वणिक्खेवे” [ २८४७ ] 20 इति वचसा त्रयोऽपि शब्दनयाः शुद्धत्वाद्भावमेवेच्छन्ति ऋजुसूत्रादयस्तु चत्वारचतुरोऽपि निक्षेपानिच्छन्ति अविशुद्धत्वादित्युक्तम् । ऋजुसूत्रो निक्षेपावेवेच्छतीत्यन्ये; तत्र ( तन ); ऋजुसूत्रेण द्रव्याभ्युपगंमस्य सूत्राभिहितत्वात् पृथक्त्वाभ्युपगमस्य परं निषेधात् । तथा च सूत्रम् - " उज्जुसुअस्स एगे अणुवन्ते श्रागमओ एगं दव्वावस्सयं, पुहत्तं नेच्छइ ति" [ अनुयो० 25 सू० १४ ] । कथं चायं पिण्डावस्थायां सुवर्णादिद्रव्यमनाकारं भविष्यत्कुण्डलादिपर्यायलक्षण भावहेतुत्वेनाभ्युपगच्छन् विशिष्टेन्द्राद्यभिलापहेतुभूतां साकारामिन्द्रादिस्था पनां नेच्छेत् १ न हि दृष्टेऽनुपपन्नं नामेति । किश्व, इन्द्रादिसञ्ज्ञामात्रं तदर्थरहित - मिन्द्रादिशब्दवाच्यं वा नामेच्छन् अयं भावकारणत्वाविशेषात् कुतो नामस्थापने
१ - ० मन्यन्ते च प्रव० - प्र० । २ विशेषा० गा० ५९ । ३ तुलना-विशेषा० ६० । ४-० माकारत्वानी०प्र० । ५ तुलना - विशेषा० गा० ६६-६८ । ६ तुलना-विशेषा० गा० ६९-७१।७ तुलना- विशेषा० गा० ७२, ७३ । ८ तुलना - विशेषा० गा० २८४८ । ९ द्रव्याभ्युपगतस्य - सं० । १० तुलना - विशेषा० गा० २८४९ ।
10
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org